SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका द्वितीयो विभागः। नंतरः। ॥२५॥ यदि प्राभृते गुरोः केनापि सहाधिकरणे वर्तमाने शिष्यः प्रतीच्छको वा समागतः तदा तस्य शिष्यस्य प्रतीच्छकस्य वा प्रायश्चित्तं पंच रात्रिदिवानि पर्यायस्य च्छेदः, आचार्यस्य पुनावप्येतो प्रतीच्छतः प्रतिगृह्णतः प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः तदेव प्रथमभंगे निर्गमनदोषा उक्ताः आगमनमशुद्धं तदा भवति, यदा वजिकादिषु प्रतिबध्यमानः समागतः तत्रापि प्रतिबंधनिमित्तं प्रायश्चित्तं सूत्रानुसारतो वक्तव्यं गतः प्रथमोभंगः द्वितीयभंगोप्येतादृश एव नवरं तत्रागमनं शुद्धं क्वचिदपि वजिकादौ प्रतिबंधाकरणात् तृतीयचतुर्थभंगावनुक्रमेणाह ॥ एतद्दोसविमुकं वइयादीपडिबद्धमायातं, दाऊण पच्छित्त; पडिबद्धंपि पडिच्छेज्जा ॥ ८१ ॥ एतैरनंतरोदितैरधिकरणकारित्वविकृतिलांपठ्यादिदोषैविमुक्तमेतेन निर्गमनं शुद्धमुक्तं, तथा बजिकादौ अप्रतिबद्धं क्वचिदपि प्रतिबंधमाकुर्वतमायातमेतेन गमनं शुद्धमुपदर्शितं एष चतुर्थो भंगः एष एवोत्सर्गतः श्रेयानिति ज्ञापनार्थ तृतीयभंगात्पूवमुक्तः । एवंभूतं प्रतीच्छेत् तृतीयभंगमाह ।। दाउणेत्यादि । यस्त्वधिकरणकारित्वादिदोषविनिर्मुक्तो निर्गतः केवलं बजिकादिषु प्रतिवध्यमानः समागतस्तमप्यपवादपदेन यत् व्रजिकादिषु प्रतिबंधकरणमभूत्तन्निमित्तं प्रायश्चित्तं दत्वा प्रतीच्छेत् । छ।। [आलोचनायां शिष्याचार्यपरीक्षणे आवश्यकादिद्वाराणि ] सुद्धं पडिच्छिऊणं, अपडिच्छणा लहुयतिलिदिवसाणि; सीसे आयरिए वा, परिच्छा तत्थिमा होइ॥२॥ शुद्धं निर्गमनमागमनदोषरहितं प्रतीच्छ्य प्रतिगृह्य तीन दिवसान् यावत् परीक्षेत् किमेष धर्मश्रद्धावान् किंवा नेति, यदि १ ॥२५॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy