SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव- हारसूत्रस्य पीठिकानंतरः। द्वितीयो विभागः। ॥२०॥ प्रत्येकं द्विधा, ओहेय इत्यादि तृतीयार्थे सप्तमी ओघेन पदविभागेन च । तथा एकैकापि दिवसेषु चिंत्यमाना एगमणेगा इति पदैकदेशे पदसमुदायोपचारात्; एकदिवसिकी अनेकदिवसिकी च भवति । ओघालोचना एकदिवसिकी विभागालोचना एकदिवसिकी अनेकदिवसिकी चेत्यर्थः, तदेवमुक्तमनानात्वमधुना नानात्वमुपदर्शयीत । नायमनायं परिच्छंति, उपसंपद्यमानं पूर्व ज्ञातमज्ञातं च परीक्षते परिभावयंति, परिभाव्य वा ज्ञानमावश्यकपदादिभिः परीक्षते। इयमत्र भावना, । उपसंपद्यमानो द्विविधो भवति ज्ञातोऽज्ञातः, तत्र यदि ज्ञातः स न परीक्ष्यते तस्यापि ज्ञातत्वात् अथाज्ञातस्तर्हि स आवश्यकादिभिः पदैः परीक्षणीय इति, संप्रति यदुक्तं विभागेण अप्पसत्थे दिणमित्यादि, तद् व्याख्यातुकाम आह । दिवरातो उवसंपय अवराहे दिवसतो पसत्थंमि; उव्वातो तदिवसं, तिराहं तु अतिक्कमे गुरुगाभा०॥६३॥ विहारालोचनावत् उपसंपदालोचनापि विभागेन प्रशस्ते अप्रशस्ते वा दिवसे रात्रौ दातव्या दोषाभावात् । तथा पूर्वसूरिभिरनुज्ञातात् , अपराधे अपराधविषया पुनरालोचना, दिवसतो इति सप्तम्यंतात् तदिवसे उपलक्षणमेतत् रजन्यां वा, | प्रशस्ते विष्टिव्यतीपातादिदोपवर्जिते व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायात , द्रव्यादिषु च प्रशस्तेषु दातव्या, नाप्रशस्तेषु एषा जिनाज्ञा, तथा उन्धातो तदिवसमिति यस्मिन् दिवसे उपसंपद्यमान आगतः, तस्मिन् दिवसे यदि उद्वातः परिश्रांत इति कृत्वा न पृष्ट आचार्येण, ततः स आचार्यः शुद्धः । त्रयाणां तु दिवसानामतिक्रमे किमुक्तं भवति ! त्रिषु दिवसेषु मध्ये यदि न पृष्टस्ततश्चतुर्थे दिवसे तस्यापृच्छतः परिहारस्थानं गुरुकाश्चत्वारो गुरुमासा एतच्च उपरि व्याख्यास्यते । ॥२०॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy