SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * द्वितीया विभागः । श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥१६॥ अष्काय विराधनालोचनानंतरं तृतीये तेजस्काये यत् प्रतिष्ठितादि तेजसि परंपरादिप्रतिष्ठितं भक्तं पानं वा गृहीतं, आदिशब्दात् सज्योतिषि वसताववस्थानं कृतमित्येवमादीति भाव तदालोचयेत् । तदनंतरं वायो वातकाये यत् अभिधारण वीजनादि कृतं घान बहिवातोभिसंधारितो भक्तं पानं शरीरं वा वीजनकादिना वीजितं एवमादि तदालोचयेत्, ततः पंचमे वनस्पतिकाये वीयाइघट्टित्ति यवबीजादिघट्टनं आदिशब्दात् हरितकायादिपरिग्रहः उपलक्षणमेतत् तेन यदि वा बीजादिकं भिक्षासु पतितं ग्रहीतमित्येवमादि तदालोचयेत् तदनंतरं षष्ठे त्रसकाये इंद्रियानुपात्तत इंद्रियवृद्धिक्रमणालोचना दातव्या. तद्यथा प्रथमतो द्वींद्रियाणां संघटनपरितापनाद्यालोचयेत्. तदनंतरं त्रींद्रियाणां ततश्चतुरिंद्रियाणां ततः पंचेंद्रियाणामिति एवं प्रथममूलगुणापराधेषु क्रमेणालोचितेषु सत्सु ।। दुभासिय हसियादी बीए तइए अजावियग्गहणं घट्टणपुव्वरयाई इंदियालोगमेहुण्णे |भा०॥५९॥ द्वितीये मूलगुणापराधे मृषावादे मृषावादविषये यत् किमपि दुर्भाषितं भणितं हासेन वा मृषावादो भणित आदिशब्दात | क्रोधेन वा मानेन वा मायया वा लोभेन वा भयेन वा यत् किमपि मृषाभणितमिति परिग्रहस्तदालोचयेत्, तदनंतरं तृतीये मूलगुणापराधे अदत्तादानलक्षणे यत् अयाचितस्य तृणडगलादेग्रहणं उपलक्षणमेतत् तेन अननुज्ञाप्य वा अवग्रहं कायिकादि व्युत्सृष्टं भवेदित्यादि परिग्रहः तदालोचयेत् ततो मैथुने मैथुनविषये यद्घट्टने पूर्वरतादि, किमुक्तं भवति, ? चैत्यभवनमहिमादिषु प्रभूतजनसंमद्दे स्त्रीशरीरसंघट्टने स्पर्श आस्वादितो भवेत् पूर्वरतक्रीडितं वा अनुस्मृतं स्यात् । इंदियत्ति इंद्रियाणि वा मनोहराणि उपलक्षणमेतत् वदनस्तनादिकमतिसुमनोहरमवेक्ष्य मनाक् रागं गतो भवेत् इत्यादि तदालोचयेत् । ॥१६॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy