SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir इह समणसु विहियाणं सव्वपत्तेण वीजयंताणं । कम्मोदय पच्चइया विराहणा कस्सइ भवेज्जाभा०॥४१॥ इह श्रमणा लिंगमात्रधारिणोपि व्यवहियंते शाक्यादयोपि च, ततस्तद्व्यवच्छेदार्थ सुविहितग्रहणं शोभनं विहितमनुष्ठान येषां ते सुविहितास्ततः श्रमणशब्देन सह विशेषणसमासः तथा प्रागुक्तदृष्टांतप्रकारेण सुविहितानां सर्वप्रयत्ने सर्वात्मना स्वशक्त्यनतिक्रमेण अपिशब्दो भिन्नक्रमः स चैवं योजनीयः, यतमानानामपि मध्ये कस्यापि कर्मोदयप्रत्ययिका कर्मोदयहेतुका विराधना भवेत् आह ! किमेकांतेनैव प्रतिसेवना कर्मोदयप्रत्ययिका उतान्योपि कश्चित्प्रकारः प्रतिसेवनाया अस्ति ? उच्यते अस्तीति ब्रूमः तथाचाह ।। ____ अन्नाविहु पडिसेवा सा उ न कम्मोदएण जा जयतो । सा कम्मक्खयकरणी दप्पाजय कम्मजणणीउ ॥ भा०॥ ४२ ॥ ___ कर्मोदयहेतुका या प्रतिसेवना सा तावदेकास्ति किंत्वन्यापि, कर्मोदयहेतुका या व्यतिरिक्तापि प्रतिसेवा प्रतिसेवनास्ति साउन कम्मोदएणंति तु शन्दोव्ययत्वेनानेकार्थत्वात् हेतौ ततोयमथः यतः सान्या प्रतिसेवना न कर्मोदयहेतुका, कर्मोदयहेतुकत्वे अन्यथा योगात् । सा च कारणे तत्रापि यतनया द्रष्टव्या तत्र या कारणे जयतोत्ति यतमानस्य यतनया प्रवर्त्तमानस्य प्रतिसेवना सा कर्मक्षयकरणी कर्मक्षयं क्रियतेऽनयेति कर्मक्षयकरणी करणे अनद् साहि नावशस्य सतः कर्मोदयहेतुका, किंतु सूत्रोक्तनीत्या, कारणे यतनया यतमानस्य ततस्तत्राज्ञाराधनात् सा कम्भेक्षयकारिणी या पुन: प्रतिसेवना दर्पण या च For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy