________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्जनपरिहारः अनुगृह्यते इति अनुग्रहः कर्म्मण्य च तस्यभावो अनुग्रहताऽनुग्रहणमित्यर्थः । अनुग्रहतया परिहारोऽनुग्रहता परिहारः, भावत्तिभावचितायामापत्रे आपन्नस्यपरिहार आपन परिहारः । अशुद्धे शुद्धस्य परिहारः एवं परिहारस्यनामादि विशेषणतो नवनामानि भवति, एषगाथाक्षरार्थः अधुना भावार्थ उच्यते, तत्र नामस्थापने प्रतीते, द्रव्यपरिहारो द्विधाआगमतो नो आगमतश्च, तत्रागमतः परिहारशब्दार्थज्ञाता तत्र चानुपयुक्तः, नोआगमतस्त्रिधा ज्ञ शरीरं भव्य शरीरं तद्व्यतिरिक्तः तत्र ज्ञ शरीर भव्य शरीरे प्राग्वत् । तद्व्यतिरिक्त परिहार परिश्य परिहारादि प्रतिपादनार्थ माह ।
कंटगमादी दब्वे, गिरिनदि माईण परिरयोहोइ; परिहरणधरणभोगे, लोउत्तरवज्ज इत्तरिए ॥ भा ॥२८॥
द्रव्य इति द्वार परामर्श: नो आगमतो ज्ञ शरीर भव्यशरीर व्यतिरिक्तो द्रव्यपरिहारोनाम यत् कंटकादिकंटकमादि शद्धात् स्थाणु विषसर्पादिकं च परिहरति द्रव्यस्य परिहारो द्रव्यपरिहार इति व्युत्यत्तेः । परिरयो नाम पर्याहारः परिधिरितियावत् उक्तं च पञ्जाहारोत्तिवा परिरयोति वा एगठं; परिरयेण परिहारः । परिरय परिहारः स च परिरयो भवति संभवति, गिरि नद्यादीनां विषयेयमत्र भावनायत् गिरिनदीमादि शब्दात् समुद्रमटवीं वा परिरयेण परिहरति एष परिश्यपरिहारः । तथा परिर्ह्रियते इति परिहरणं भावे अनतद्विधा लौकिकं लोकोत्तरं च तत्र लौकिकं यथा माता पुत्रं परिहरति भ्रातरं परिहरति न परिभुंक्ते इत्येवमादि, लोकोत्तरं साक्षादाह । परिहरणधरणभोगे
For Private and Personal Use Only
-*-*-*-*