SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्य प्रायश्चित्तं । तथाचाह गीए दप्पा जए दोसा, गीते गीतार्थे दर्पण प्रवर्तमाने प्रतिसेवनायामिति गम्यते कारणेपि प्रतिसेवनाया अयतमाने अगीतार्थेन तुल्यं तस्य प्रायश्चित्तमिति भावः, प्रतिसेव्यमाने तुल्ये वस्तुनि दर्पणापि क्रियमाणायां प्रति | सेवनायां यतनया प्रवृत्तौ न तुल्यं प्रायश्चित्तं, कारणे पुनर्यतनया प्रवर्त्तमानः शुद्ध एव न प्रायश्चित्तविषयः । तत्राचार्या उपाध्यायाध नियमात् गीतार्था इति गीतार्थत्वापेक्षया समाः केवलं प्रतिसेव्यमानं वस्तुप्रतीत्य विपमाः भिक्षको गीतार्थागीतार्थाश्च भवंति प्रतिसेव्यमपि वस्त्वधिकृत्य भेद इति, वस्तुभेदतो गीतार्थत्वागीतार्थत्वतश्च पृथक् विभिन्न विभिन्न प्रायश्चित्तं, सहासहपुरुषाद्यपेक्षया तु तुल्येप्याभवति प्रायश्चित्ते पृथक् विभिन्न विभिन्न प्रायश्चित्तदानं तथाचाह ।। दोसविहवाणुरूवोलोए दंडोवि किमुत उत्तरिए॥तित्थुच्छेदोइहरा निराणुकंपा नय विसोही।भा.१७३। दंडोवीन्यपिशब्दो भिन्नक्रमत्वात् लोकेपीन्येवं द्रष्टव्यः लोकेपि दंडो दोषानुरूपो विभवानुरूपश्च, तथाहि महत्यपराधे महान् दंडोऽल्पेऽल्पीयान् तथा समानेऽपि दोषेऽल्पधनस्याल्पो महाधनस्य महान् लोकेपि तावदेवं किमुत किंपुनरौत्तरिके लोकोत्तरसंबंधिनि व्यवहारे, तत्र सुतरां दोषसामर्थ्यानुरूपो दंडस्तस्य सकलजगदनुकंपायाः प्रधानत्वात् यदि पुनरल्पेपि दोषे महान दंडो महत्यप्यल्पीयान् तथा यदि समानेप्यपराधे कृतकरणत्वमकृतकरणत्वं वाचार्योपाध्याययोर्भिक्षोरपि कृतकरणत्वमकृतकरण त्वमधिगतत्वं स्थिरत्वमस्थिरत्वं चानपेक्ष्य न तदनुरूपो दंड: स्यात् किंतु तुल्य एव, तदा व्यवस्थाया अभावतः संतानप्रवृत्यसंभवे तीर्थोच्छेदः स्यात् , तथा निरनुकंपा अनुकंपाया अभावः । प्रायश्चित्तदायकस्य असमर्थभिक्षुप्रभृतीनामनुग्रहात् न च तस्य प्रायश्चित्तदायकस्य विशोधिरप्रायश्चित्तस्य प्रायश्चित्तेप्यतिमात्रप्रायश्चित्तस्य दानतो महाशातना For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy