SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चनायां संयोजना दयते राजपिंडे चत्वारो गुरुमासाः प्राधाकार्मिकेपि चत्वारो गुरुमासाः उदकार्दै लघुमासः अभ्याहृतेपि लघुमास इत्यधिकृते राजपिंडे उद्गमदोषादिना उद्गमदोषेण आदिशब्दादुत्पादनादोषेणैषणादोषेण चशब्दादन्येन च यथासंभवं संयोजनायां दसमासाः प्रायश्चित्तं एवमनया दिशा तत्तदोषं संयोजनातः संयोजनाप्रायश्चित्तमवसातव्यं, एवं संयोजनायामनुमतायां मामृदपरिमाणा शंकेति कस्मिन् तीर्थे कति मासा दीयंते प्रायश्चितमिति परिज्ञानाय संयोजनात् आरोपणा प्रायश्चित्तं पृथकृतं आलोयणाविहीवियत्ति यत् यथा प्रतिसेवितं तत्तथैवालोचितव्यं नतु मायया प्रतिकुंचनीयमन्यथा मायया प्रतिकुंचने मायाप्रत्ययमधिकं मासगुरुं प्राप्नोतीत्येवं ज्ञापितः सन् यथाप्रतिसेवितमालोचयते, तत आलोचनाविधि रपिसम्यग् ज्ञापितः स्यात् अपिशब्दादेवं ज्ञापितो यदा माययान्यथालोचयते तदा आरोपणायां क्रियमाणायां यत्र मासलघु आभवति तत्र मासगुरु प्रदातव्यमिति ज्ञापनार्थमारोपणातः प्रतिकुंचनाप्रायश्वित्तं भिन्नं कृतमिति एवमुक्तेन प्रकारेण चतुर्णामपि प्रायश्चित्तानां नानात्वमिति उक्तं संयोजनाप्रायश्चित्तं तदुक्तौ यतः प्ररूपणापृथक्त्वमिति द्वारमप्युक्तं, सांप्रतमारोपणाप्रायश्चित्तमाह । छ। पंचादि पारोवणनेयव्वा जाव होंति छम्मासा, तेण पणगादियाणं छण्हुवरि ज्झोसणं कुज्जा ॥१४१॥ रात्रिंदिवपंचकादारभ्यारोपणा पंचादि रात्रिंदिवपंचकादिका आदिशब्दात् दश पंचदश विंशतिः रात्रिंदिवमासिकादिपरिग्रहः ज्ञातव्यः, तावत् यावत् षण्मासा भवंति, नाधिकं यत् एवं तेन कारणेन पण्णां मासानामुपरि पणगाइयाणंति रात्रिंदिव पंचकादीनां ज्झोपणामपनयनं कुर्यात् , परमासानामुपरि यदापद्यते प्रायश्चित्तं, तत्सर्वे त्यज्यते इति भावः उक्तं च चूर्णौ । For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy