SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [गुर्जरदेश ७६ अनेवंभावोऽपि पुरुषाधमत्वमावेदयति ॥ ३७ ॥ तथाहिआकिंचन्यादतिपरिचयाज्जाययोपेक्ष्यमाणो . भूपालानामननुसरणाद्विभ्यदेवाखिलेभ्यः ॥ गेहे तिष्ठन् कुमतिरलसः कूपकूमैः सधर्मा किं जानीते भुवनचरितं किं सुखं चोपभुङ्क्ते ? ॥ ११९ ॥ तथाहि व्यापारान्तरमुत्सृज्य वीक्षमाणो वधूमुखम् ॥ यो गृहेष्वेव निद्राति दरिद्राति स दुर्मतिः॥ १२० ॥ किमप्यनिर्वाच्यं सौख्यं दधते धारयन्ति । 'डु धा धारण-पोषणयोः' इत्यस्माल्लव्यात्मनेपदे प्रथमपुरुषबहुवचनम् । अयं भावः-यथा तावत्कश्चिदपि पान्थो मार्गेण गच्छन् सूर्यातपसंतप्तश्च वृक्षच्छायायां यत्सुखमनुभवति न तदन्येन केनाप्यनुभवितुं शक्यते, तथैव यत्प्रथमं दुःखमनुभूय पश्चात् सुखं प्राप्नोति तदेवाधिकसंतोषास्पदम् । तदुक्तम् विक्रमोर्वशीये महाकविना कालिदासेन-“यदेवोपनतं दुःखात्सुखं तद्रसवत्तरम् । निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः” इति ॥ ११८ ॥ व्यतिरेकमाह-अनेवंभाव इति । एवं देशान्तरसंचारादिप्रकारेण भावः खभावः "भावः सत्ता-खभावाभिप्राय-चेष्टात्मजन्मसु" इत्यमरः । द्रव्यार्जनादिरूपः न भवतीत्यनेवंभावः अर्थात्संततं गृह एव संवास इत्यर्थः । पुरुषाधमत्वं आवेदयति संपादयति ॥ ३७॥ तथाहि तदेव वक्ष्यामीति भावः।। आकिंचन्यादिति । यः कुमतिः कुबुद्धिः अलसः मन्दश्च अत एव गेहे गृहे तिष्ठन् संश्च कूपे वाप्यां ये कूर्माः कमठाः तैः समान: तुल्यः धर्मः कुत्रापि बहिरगमनादिरूपः खभावः "धर्माः पुण्य-यम-न्याय-स्वभावाचारसोमपाः" इत्यमरः । यस्य सः “धर्मादनिच् केवलात्" इति समासान्तोऽनिच् प्रत्ययः । अत एव नास्ति किंचन द्रव्यादिकं यस्य तस्य आकिंचनस्य दरिद्रस्य भावः आकिंचन्यं तस्मात् संततगृहसंवासात् अतिपरिचयाच्च जायया स्त्रिया उपेक्ष्यमाणः, किंच भूपालानां राज्ञां अननुसरणात् संनिधगमनाभावाच्च, अखिलेभ्यो महाजनेभ्यः बिभ्यदेव भीतिं कुर्वन्नेव बिभेतेः शतरि रूपम् । अभ्यस्तत्वानुमभावः । एतादृशः पुरुषः भुवनचरितं विविध. चमत्कारनिरीक्षणादिरूपं जानीते किम् ? तत एव च सुखं च सुखमपि उपभुते किम् ? अपि तु किमपि नैव जानाति, सुखमपि नैव भुङ्क्ते इत्यर्थः ॥ ११९ ॥ व्यापारेति । व्यापारान्तरं द्रव्यसंपादनार्थमन्यदेशगमनादिरूपमन्यव्यापारं, उत्सृज्य त्यक्त्वा यः दुर्मतिर्दुर्बुद्धिः पुरुषः, वध्वाः स्त्रियाः मुखं वीक्षमाणः अवलोकयन् . १ 'मुद्दिश्य'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy