SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७४ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: लैसद्रत्नाकल्पा घुमघुमितदेहाश्च घुसृणै युवानो मोदन्ते युवतिभिरमी तुल्यरतिभिः ॥ ११५ ॥ अत्र वधूनामप्यन्यादृशं सौन्दर्यम् ॥ ३४ ॥ तप्तखर्णसवर्णमङ्गकमिदं ताम्रो मृदुश्चाधरः पाणी प्राप्तनवप्रवालसरणी वाणी सुधाधोरणी || [ गुर्जरदेश वक्रं वारिजमित्रमुत्पलदल श्रीसूचने लोचने के वा गुर्जरसुभ्रुवामवयवा यूनां न मोहावहाः १ ॥ ११६॥ कु० - सत्यमेवं तथापि नैते सारवस्तूपभोगचतुराः ॥ ३५ ॥ रक्तवर्णद्रवेण “रागे द्रवे रसः" इत्यमरः । लसन्ति शोभमानानि मुखानि येषां ते, तथा सर्वेषां जनानां या श्लाघा प्रशंसा तस्याः पदानि पात्रभूतानि विविधान्यनेकप्रकाराणि च दिव्यानि च यान्यम्बराणि वस्त्राणि तेषां । " अम्बरं व्योम्नि वाससि " इत्यमरः । धराः धारकाः । लसन्तः रत्नानां मणीनां आकल्पाः भूषणानि येषां तथाभूताः । घुसृणैः कुङ्कुमैः- “अथ कुङ्कुमम् । काश्मीरजन्माग्निशिखं वरं " इत्यमरटीकायां व्याख्यासुधायां "वरं तु घुसणे किंचिदिष्टे" इति हैम: । घुमघुमिताः सुवासयुक्ता देहा येषां तथाभूताश्च अमी युवानः तरुणाः, तुल्या समाना रतिरनुरागो यासां ताभिः युवतिभिः तरुणस्त्रीभिः सह मोदन्ते रतिसुखानन्दमनुभवन्तीत्यर्थः ॥ ११५ ॥ अत्रेति । अत्र देशे वधूनां स्त्रीणां "वधूजया स्रुषा नार्योः स्पृक्का-सारिवयोरपि " हति हैमः । अपि सौन्दर्य अन्यादृशं भिन्नप्रकारकम्, इतर विलक्षणमित्यर्थः ॥ ३४ ॥ > तदेव प्रतिपादयति- तप्तेति । इदं इदानीं दृश्यमानं, एतत् सर्वत्र लिङ्गवचनमनुनृत्यानुषञ्जनीयम् । गुर्जरसुभ्रुवां गुर्जरदेशीयस्त्रीणां अङ्गं शरीरमेवाङ्गकं स्वार्थे कः । तप्तं पुटपाकेन शोधितं च तत् खर्ण सुवर्ण च तेन सवर्ण सदृशम् । अधरः अधरोष्ठश्च ताम्रो रक्तवर्णः मृदुश्च कोमलोsपि । पाणी हस्तौ प्राप्ता नवानां नूतनानां पल्लवानां सरणिः पद्धतिर्ययोस्तथाभूतौ । नूतनपल्लवसदृशौ सुकुमारावित्यर्थः । वाणी सुधाधोरणी अमृतस्रवा अतिमधुरेत्यर्थः । वक्रं मुखं च वारिजमित्रं कमलसमानमित्यर्थः । लोचने नेत्रे च उत्पलस्य कमलस्य यद्दलं पत्रं तस्य श्रियः शोभायाः सूचने सूचके । नेत्रदर्शनेन कमलपत्रस्मरणं भवतीति भावः । एवं गुर्जरसुभ्रुवां के वा अवयवाः यूनां तरुणानां मोहावहाः मोहसंपादकाः न भवन्ति ? अपि तु सर्वेऽपि भवन्तीति॥११६॥ १ 'कनद्रलाकल्पा'. सत्यमिति । एवं त्वत्कथितप्रकारं सत्यं, तथापि एते अत्रत्यपुरुषाः सारवस्तूनां श्रेष्ठवस्तूनां उपभोगे चतुराः निपुणाः न भवन्ति ॥ ३५ ॥ २ 'अत्रत्यानाम्'. ३ ‘सरसवस्तूपभोग'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy