SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ७] पदार्थचन्द्रिकाटीकासहिता । एतादृशे कलियुगेऽपि शतेषु कश्चि जातादरो जगति यः श्रुतिमार्ग एव ।। यत्किंचिदाचरति पात्रमसौ स्तुतीनां __ श्लाघ्यं मितापमपि किं न मरौ सरश्चेत् ॥ ९५॥ किंचये कायस्थजनाश्च ये नृपसुता ये च द्विजाश्शस्त्रिण स्ते यत्नादनुसृत्य निर्दयतया शुष्कांस्तुरुप्काधिपान् ॥ देवान् भूमिसुरांश्च पान्ति कृतिनस्ते चेद्गृहेप्वासते ब्राह्मण्याय जलाञ्जलिः किल भुवि प्राज्ञैः प्रदेयो भवेत् ॥९६॥ कपालस्थानस्थितायुरक्षराणां लयः नाशः । एतत्प्रादुर्भावाच्छास्त्राणि विलयं यान्तीत्यर्थः । तथा सवानां यज्ञानामपि “यज्ञः सवोऽध्वरो यागः” इत्यमरः । शान्तिः शमनम् , सर्वाणि यान्यानायवचांसि वेदवचनानि तेषां समापनदिनं समाप्तिदिवसः। सद विधेः सत्पूजादिकर्मानुष्ठानस्य संस्था मर्यादा। अस्य पापप्रचुरत्वान्न तावत्सत्कमणोऽवकाश इति भावः । “संस्था तु मर्यादा धारणा स्थितिः" इत्यमरः। दम्भादिप्रदर्शनार्थे तावत्प्रचुरं असदर्चनादिकं कलौ प्रवर्तते इत्येतत्सूचनार्थ सच्छब्दप्रयोगः। तथा अर्थाशायाः द्रव्यवाञ्छायाः, जनिभूः जन्मभूमिः । एतादृशः अयं कलिरिति संबन्धः ॥ ९४ ॥ __ एतादृश इति । एतादृशे पूर्वोक्तानेकानर्थकारके कलियुगेऽपि, शतेषु असंख्यातेषु जनेषु मध्ये, यः कश्चित् एकः कोऽपि, श्रुतिमार्गे वेदमार्गे वेदविहितकर्मानुष्ठाने इत्यर्थः। जातः उत्पन्नः आदरः श्रद्धा यस्य सः तथाभूतः एव, यत्किचित् यावत् कर्तुं शक्येत तावत् कर्म आचरति करोति चेत्, तर्हि असौ कर्मकर्ता स्तुतीनां प्रशंसानां पात्रम् । प्रशंसितुं योग्य एवेत्यर्थः । तत्र दृष्टान्तः। मरौ म्रियन्ते पिपासया जन्तवो यस्मिन्देशे तस्मिन् निर्जलप्रदेशे इत्यर्थः । ('मारवाड' इति प्रसिद्ध इति यावत्) मिता अल्पाः आपः उदकानि यस्मिंस्तथाभूतमपि सरः सरोवरं चेत्, स्यात् इति शेषः । तर्हि तत् न श्लाघ्यं किं न प्रशंसायोग्यं किं? अपि तु प्रशंसनीयमेवेत्यर्थः॥९५ 'शस्त्रैर्जीवति-' इत्यादिनोक्तं दूषणमपाकरोति-ये कायस्थेति। ये कायस्थजनाः ग्रामायव्ययलेखकाः, ये च नृपसुताः राजपुत्रज्ञातीयाः, ये च द्विजाः ब्राह्मणाः सन्तः शत्रिणः शस्त्रधारिणः, ते त्रिप्रकारा अपि यत्नात् , दुःसहक्लेशसहनमङ्गीकृत्येत्यर्थः । ल्यब्लोपे पञ्चमी । निर्दयतया दयाराहित्येन शुष्कान् दयारसरहितान् ,केवलं खार्थसाधनतत्परानित्यर्थः।तुरुष्काधिपान तुरुष्क-(महाराष्ट्रभाषया 'तुर्क')देशीययवनभूपतीन् अनुसृत्य सेवाधर्मेणानुगम्य,देवान् , विश्वेश्वरानपूर्णादिदेवतायतनानि भूमिसुरान् ब्राह्मणांश्च पान्ति रक्षन्ति।अयमाशयः-यवनास्तु खभावतः क्रूरा निर्दयाश्च परधर्मद्वेषिणश्चा १ 'क्षितावपि च'. २ 'शास्त्रिणः'. ३ 'मुधोदासते'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy