SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra -वर्णनम् ६ ] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थचन्द्रिकाटीकासहिता । अथ गङ्गानदीवर्णनम् ६. इति विमानं दक्षिणतः प्रस्थाप्य कृशानुमुद्दिश्य - शिथिलितभवखेदा श्लिष्टवैकुण्ठपादा कृतविपदपनोदा क्लृप्तचित्तप्रसाद ॥ विमलतरतरङ्गा विश्रुताम्भोधिसङ्गा विहितदुरितभङ्गा वीक्ष्यतामत्र गङ्गा ॥ ७४ ॥ कृशानुः - उपेक्षणीयानि भागीरथीयानि पानीयानि किमिति वीक्षणीयानि ॥ १९ ॥ यतः येषां जनिश्चरणतस्तु हिरण्यहर्तु - दोंषाकरेण गुरुदारविटेन मूर्ध्नि ॥ ४९ इति विमानं दक्षिणतः दक्षिणस्यां दिशि, 'दक्षिणोत्तराभ्यामतसुच्' इत्यतसुच् । प्रस्थाप्य नीत्वा कृशानुमुद्दिश्य, आहेति शेषः । शिथिलितेति । शिथिलितः विनाशितः भवस्य संसारस्य खेदः दुःखं यया तादृशी । श्लिष्टौ आलिङ्गितौ आश्रिताविति यावत् । वैकुण्ठस्य विष्णोः पादौ यया तथाभूता । कृतः विपदां आपत्तीनां अपनोदो निवारणं यया तथाभूता । पुनश्च कृप्तः रचितः चित्तस्य प्रसादः प्रसन्नता यया तादृशी । यस्या दर्शनमात्रेणैव मनःसंतोषो जायते इत्यर्थः । विमलतराः अतिशयेन निर्मलास्तरङ्गा वीचयो यस्याः सा तथाभूता । "भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु" इत्यमरः । विश्रुतः प्रसिद्धः अम्भोधेः समुद्ररूपस्य पत्युः सङ्गः संगतिर्यस्याः सा । अत एव विहितः कृतः दुरितानां पापानां भङ्गः विनाशो यया तथाभूता च । अत्रास्मिन्स्थले गङ्गा भागीरथी नदी वीक्ष्यतां दृश्यतां त्वयेति शेषः । मालिनी वृत्तम् । लक्षणमुक्तं प्राक् ( ३५ श्लोकटीकायाम् ) ॥ ७४ ॥ अथाह कृशानुः - उपेक्षणीयानीति । उपेक्षितुं तिरस्कर्तुं योग्यानि उपेक्षणीयानि भागीरथीयानि गङ्गासंबन्धीनि पानीयान्युदकानि किमिति कुतो हेतोः वीक्षणीयानि अवलोकनीयानि ? अत्रोपेक्षणीयानीत्यस्य 'उप समीपे ईक्षणीयानि दर्शनी - यानि इति ष्टार्थो मुद्रितपुस्तके मधुरसुब्बाशास्त्रिविरचितटीकायामुपलभ्यते । परं च स न युक्तः । 'वींक्षणीयानि' इत्यग्रिमपदेनैव तदर्थलाभात् पुनरपि तथैवार्थ करणे श्लेषस्वरसाभावात् पुनरुक्तिदोषापत्तेश्व ॥ १९ ॥ वीक्षणीयत्वाभावमेव दर्शयति — यतः —— येषामिति । येषां गङ्गायाः इमानि १ 'प्रमोदा'. २ 'विस्तृताम्भोधिसङ्गा' ३ 'मौली'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy