________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ५] पदार्थचन्द्रिकाटीकासहिता । किंचधिक्कृत्यैव दशास्यदर्पशमनं धीशालिनं वालिनं
सोऽयं राक्षसवर्गनिग्रहकृते सुग्रीवमन्वग्रहीत् ।। तुङ्गप्रस्तरभङ्गलिप्सुरिह निश्शकं तु टकं त्यजन्
संकल्पं कलयेत पङ्कजदलादानप्रसङ्गाय कः ॥ ४४ ॥
सिद्ध्यति । यथा-वृद्धशब्दादीयसुनि “प्रिय-स्थिर-स्फिरोरु-बहुल-गुरु-वृद्ध-" इत्यादिना वृद्धशब्दस्य वर्षादेशः । अत एव "वर्षीयान् दशमी ज्यायान्" इत्यमरटीकायां महेश्वरभट्टः ‘अतिशयेन वृद्धो वर्षीयान्' इत्येवं व्याचख्यौ। तस्मादत्रायं प्रयोगः कविमतिभ्रमद्योतक एवेति भाति । यद्वा वृद्धशब्दस्य श्रेष्ठवाचिलं संगृह्य समाधेयम् । अपि च जानकी सीता सहचरी सह गच्छन्ती यस्य तथाभूतश्च सन् । सीतासहित इति यावत् । मातुः सपत्न्याः कैकेय्याः, सपतिशब्दस्य स्त्रीत्वविवक्षायां "नियं सपत्यादिषु" इति नकारादेशो ङीप् च । मुदे संतोषाथै, रथाश्च हस्तिनश्च पत्तयः पादातयश्च "पदाति-पत्ति-पदग-" इत्यमरः । तुरगा अश्वाश्च तैः संपन्नं समृद्धं, निजं ज्येष्ठभ्रातृत्वात्स्वकीयं राज्यं संत्यज्य त्यक्त्वा, धनं निबिडं वनमरण्यं विन्दन गच्छन्, 'विद्ल लाभे' इति धातोः शतृप्रत्ययः मुचादित्वानुम् । हन्तेति विषादे। असौ रामः अयुक्ता अयोग्या क्रिया वनगमनरूपा यस्य तथाभूतः कथं न स्यात् ? अपि तु स्यादेवेत्यर्थः । अयमाशयः—यद्यसौ (श्रीरामः) खजनन्याः संतोषार्थ वनं गच्छति स्म, तर्हि तस्य तद्गमनमुचितमेव । किंतु केवलं मात्सर्यभरितायाः एकाकिन्याः सापत्नमातुः सुखार्थमेव स्वमातरं पित्रादींश्च शोकसागरे निमज्य यदसौ वनमगमत् तदत्यन्तानुचितमेवेति । एतदेव दृष्टान्तेन स्पष्टयति-गव्यमिति । लोके गव्यं गोसंबन्धि “गोपयसोर्यत्" इति यत्प्रत्ययः। दुग्धं क्षीरं अपास्य त्यक्त्वा, अपपूर्वात् 'असु क्षेपणे' इत्यस्मात् क्त्वाप्रत्यये ल्यवादेशः। यवागूरसं उष्णिकारूपं रसं ( अयं महाराष्ट्रभाषायां 'आटवल' 'पातळ भात' इति नाम्ना प्रसिद्धः) "यवागूरुष्णिका श्राणा" इत्यमरः । को वा जनः पास्यति पिबेत् न कोऽपीत्यर्थः । दृष्टान्तालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ ४३ ॥
नैतावदेव अन्यदप्येतस्मात् (पूर्वोक्तात्) अवधं कृत्यमाह-धिकृत्यैवेति । सः राज्यं संत्यज्य वनं गच्छन् अयं रामः, दशास्यस्य रावणस्य दर्पशमनं गर्वनिवारकं अत एव धीशालिनं बुद्धिमन्तं वालिनं वालिनामानं वानरं, वालिना हि पूर्व रावणो निगृह्य निजबालकस्यान्दोलिकायां पुत्रिकेव बालक्रीडनकीकृत इति प्रसिद्धिः। धिकृत्य तिरस्कृत्य तं हत्वेत्यर्थः । पुनश्च राक्षसानां रावणादीनां वर्गः समुदायः तस्य निग्रहकृते वधार्थ, सुग्रीवं अल्पपराक्रमं तद्भातरं अन्वग्रहीत् स्वीकृतवान् । एतदेव सदृष्टान्तमुपपादयति-तुङ्गेति । इह लोके तुङ्गः कठिनश्चासौ प्रस्तरः पाषा
१ 'दर्पदमनं'.
For Private And Personal Use Only