________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
विश्वगुणादर्शचम्पू:- [भूलोकविश्वावसुः—तथापि सर्वथा कलिकालिका अपि मानुषा न दृषणीयाः । यतः सर्वकालमपि केचन सन्त्येव साधवः ॥ ११ ॥ पश्यदुरितभरितक्षीबक्ष्मापप्रसादनिरादराः
कमलनयनखैरक्रीडागृहायितहगुहाः ॥ निगमपदवीनिहाय क्षितावुदिताः खयं
कति न कृतिनः संदृश्यन्ते कलावपि निर्मलाः ॥ ३२ ॥ "कामः पञ्चशरः स्मरः" इत्यमरः। तेन मलीमसं मलिनं “मलीमसं तु मलिनं" इत्यमरः। "ज्योत्स्ना-तमिना-" इत्यादिनिपातनात् साधु । मानसं मनो येषां तेषां, तथा मन्युः क्रोधश्च "मन्युर्दैन्ये कतौ कुधि" इति हैमः । स्पृहा विषयेच्छा च "इच्छा काङ्क्षा स्पृहेहातृट्" इत्यमरः। दुरभिमानः 'अहं श्रेष्ठः, अहं धनी, अहमेव प्रभुः' इत्यादिरूपो वृथाहंकारश्च मदो युक्तायुक्तविवेकराहित्यं च तेषां आस्पदानां स्थानभूतानां, अत एव कलौ काले एतस्मिन् पापिनि कलियुगे, कलुषतः प्राक्तनपापकर्मवशादेव, कलितः संप्राप्तः उदयः उत्पत्तिर्येषां तथाभूतानां, दुरीश्वराणां दुष्टनृपाणाम् , दृष्टिदर्शनमपि, दोषाय पापार्थमेव भवति।तादर्थे चतुर्युषा । किमुत स्पर्शन-भाषणादिकम्। एवं च एतादृशजनाधिष्ठिता भूमिर्न खलु प्रशंसनीयेति भावः । वसन्ततिलका वृत्तम् । “उक्ता वसन्ततिलका त-भ-जा ज-गौ गः" इति तल्लक्षणात् ॥ ३१ ॥ ___ एतदपि दूषणमपाकुर्वन्नाह विश्वावसुः-तथापीति । तथापि त्वदुक्तदोषयुकेषु केषुचिल्लोकेषु सत्वपि, सर्वथा सर्वे इत्यर्थः। कलिकालिकाः कलिकालभवा अपि "तत्र भवः” इत्यधिकारे कालाहञ् । मानुषा मनुष्याः न दूषणीयाः दूषितुं योग्या न भवन्तीत्यर्थः । यतो यस्मात् कारणात् , सर्वकालेऽपि केचन कतिपयाः साधवः सज्जनाः सन्त्येव भवन्त्येव ॥ ११॥
एतदेवोपपादयति-पश्यति-दुरितेति । दुरितेन पापेन भरितानां पूर्णानां अत एव मद्यादिपानेन क्षीबानां मत्तानां च क्षमापाणां भूमिपानां राज्ञां प्रसादे प्रसन्नतायां निरादरा आदररहिताः। यतः कमलनयनः कमलपत्राक्षः विष्णुः, यद्वा कमलं कुरङ्गं नयति हस्तं प्रापयतीति कमलनयनः शिवश्च "स्यात् कुरङ्गोऽपि कमलं" इत्यमरः । एवं च विष्णोः शिवस्य वा खैरक्रीडा स्वेच्छाविहारः तदर्थे गृहायिता गृहवदाचरन्त्यः हृद्गुहा हृदयस्थदहराकाशा येषां ते, सम्यग्ध्यानादिसाधनैरन्तःस्थपरमात्मज्ञानसंपन्ना इत्यर्थः । तेनैव राज्ञः प्रसादेऽपि निःस्पृहाः । अत एव निगमानां वेदानां पदवी मार्गः तस्य निर्वाहाय संरक्षणाय, अर्थात् वेदविहितकर्माद्यनुष्ठानेन तत्सार्थक्यापादनायेत्यर्थः । खयं क्षितौ पृथिव्यां उदिता उत्पन्नाः कृतिनः पुण्यवन्तः निर्मलाः शुद्धान्तःकरणाः एतादृशाः सजनाः, कलौ युगेऽपि कति न संदृश्यन्ते ? अपि तु
१ 'सर्वे'. २ ‘सर्वकाले'.
For Private And Personal Use Only