SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ विश्वगुणादर्शचम्पू:शास्त्रं भूरि निजखरूपमतये खाराधनार्थं वपुः । खध्यानाय मनश्च बुद्धिमनघां लब्धं च तीर्थादिकम् ॥ तत्त्वान्यप्युपदेष्टुमुत्तमगुरून् दत्त्वाऽनुगृह्णाति नः संसारे तदपि भ्रमेम यदि किं कुर्वीत ? सर्वेश्वरः ॥ २४ ॥ अथ भूलोकवर्णनम् ३. इति परिक्रामन् किंचिदुत्रमुपसृत्याधस्तादवलोक्य चसखे सकलपुरुषार्थसाधनानुष्ठानस्थानभूतं तावदवलोकय भूलोकम् ॥ ८॥ किंतु सारांशतया यत् कथयामि तच्छृण्वित्याह-शास्त्रमिति । यः ईश्वरः निजस्य मात्मनः स्वरूपस्य सर्वत्र व्यापकस्य, मतये ज्ञानार्थ, भूरि बहु “पुरुहूः पुरु भूयिष्ठं स्फारंभूयश्च भूरि च" इत्यमरः । शास्त्रमुपनिषच्छारीरकसूत्रादि च, खस्य आराधनार्थ पूजार्थं वपुः करचरणादीन्द्रियसहितं शरीरं, स्वध्यानाय खमिन् खरूपप्रत्ययतया 'चित्तस्यैकतानतायै "तत्र प्रत्ययैकतानता ध्यानं" इति योगसूत्रात् । तथा अनघां निर्मलां बुद्धिं च लब्धं, तीर्थादिकं प्रयाग-पुष्करादिरूपं च, तत्त्वानि च उपनिषदादिषु कथितानि 'तत्त्वमसि' इत्यादिमहावाक्यानि उपदेष्टुमपि उत्तमगुरून् दत्त्वा, नोउस्मान् अनुगृह्णाति । तदपि एवमनुग्रहे कृतेऽपि शास्त्रावलोकन-पूजन-ध्यानाद्यन्यतमस्य कस्यापि साधनस्यानाचरणेन, प्रत्युत कामाद्यासङ्गेन चेति शेषः । संसारे यदि अमेण “पुनरपि जननं पुनरपि मरणं' इत्यायुक्तरीत्या परिभ्रमामः, 'भ्रमु चलने' इत्यस्माद्विधिलिड्युत्तमपुरुषः । तदा सः सर्वेश्वरः किं कुर्वीत ? एवं च जगत्संहारनरकपातादिरूपोऽयं न भगवतोऽपराधः, किं तु तादृशकर्मकर्तृणां जीवानामेव, तस्माच्च परमकारुणिके भगवति नारायणे दोषारोपो न युक्त इति भावः । शा. वि० वृत्तम् ॥ २४ ॥ एवं सविस्तरं सूर्यवर्णनमुपसंहृत्य भूलोकवर्णनप्रस्तावमाह-इतीति । इति वदन् विश्वावसुरिति शेषः । परिक्रामन् विमानेन परिभ्रमन् ‘क्रमु पादविक्षेपे' इत्यस्मात् शतृप्रत्ययः । “क्रमः परस्मैपदेषु" इत्युपधादीर्घः । किंचिदुत्तरमुपसृत्य पुरतो गत्वा, अधस्तादधोभागे अवलोक्य दृष्ट्वा च, आहेति शेषः ॥ सखे इति। हे सखे कृशानो, सकलाश्चत्वारश्च ते पुरुषार्था धर्मार्थादयस्तत्साधनानां कर्मणामनुतानस्य स्थानभूतं भूलोकमवलोकय पश्य ॥ ८ ॥ १ 'शुद्धिम्'. २ 'किंचिदन्तरं'. ३ हेतुभूत'. ४ 'स्वमवलोकय'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy