SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: [ कवेर सकलकुशलसिथै सर्वदेवस्थलेषु व्रजतु भुवि विवृद्धिं वत्सराद्युत्सवश्रीः ।। अपगतभवरोगैरध्वराणां प्रयोगैः रखिलशुभकराणामस्तु भद्रं द्विजानाम् ॥ ५९५ ॥ जयतु जगति लक्ष्मणार्यपक्षो जयतु वचः श्रुतिमौलिदेशिकानाम् । जयतु निगमवर्त्म निःसपत्नम् जयतु चिराय च मूर्तिरञ्जनाद्रौ ॥ ५९६ ॥ प्रकाशदोषप्रचुरेप्यमुष्मिन् ग्रन्थे मदीये करुणानुबन्धात् ।। प्रसादवन्तो न कृशानवन्तु परन्तु विश्वावसवन्तु सन्तः ॥ ५९७ ॥ सकलेति । सर्वदेवानां विष्णु-शिवादीनां स्थलेषु वत्सराद्युत्सवानां वत्सरादितिथौ विहितानां ध्वजारोपणादीनां श्रीः शोभा सकलानां जनानां कुशलस्य कल्याणस्य सिद्ध्यै भुवि विवृद्धिं व्रजतु गच्छतु । तथा अपगतः भवरोगः संसाररोगः येभ्यस्तथाभूतैरध्वराणां यज्ञानां प्रयोगैरनुष्ठानैः अखिलस्य सर्वस्यापि जनस्य शुभकराणां कल्याणकराणां द्विजानां ब्राह्मणानां भद्रं कल्याणं अस्तु ॥ ५९५ ॥ - जयत्विति । जगति लक्ष्मणार्यस्य श्रीरामानुजस्य पक्षो विशिष्टाद्वैतरूपः सिद्धा. न्तः जयतु, पक्षे लक्ष्मणस्य आर्यः ज्येष्ठभ्राता श्रीरामः तस्य पक्षः शिवोपासनारूपश्चेत्यर्थः । श्रुतिमौलिदेशिकानां वेदान्ताचार्याणां वचः उपदेशरूपं च जयतु सर्वोकषेण वर्ततां, निःसपत्नं शत्रुरहितं दुस्तर्कप्रतिपादनरहितमिति यावत् । निगमवर्ती वेदमार्गश्च जयतु, अञ्जनाद्रौ नीलपर्वते मूर्तिः श्रीनिवासरूपा चापि चिराय बहुकालपर्यन्तं जयतु सर्वोत्कर्षेण वर्तताम् । इति पद्यद्वयप्रतिपादितं शिष्टाचारपरिप्राप्त ग्रन्थान्ते मङ्गलाचरणं बोध्यम् ॥ ५९६ ॥ । एवं समाप्तिमङ्गलं कृत्वा विद्वत्प्रार्थनां विधत्ते-प्रकाशेति । अमुष्मिन् मदीये मया रचिते विश्वगुणादर्शनाम्नि, प्रकाशाः प्रसिद्धाः दोषाः वस्तूनां कृशानुप्रतिपादिता इत्यर्थः । यस्मिन् तथाभूतेऽपि ग्रन्थे करुणायाः दयाया अनुबन्धात् संबन्धात् सन्तो विद्वांसः प्रसादवन्तः प्रसन्नान्तःकरणयुक्ताः सन्तः न कृशानवन्तु कृशानुवत् नाचरन्तु दोषबुद्धियुक्ता न भवन्दित्यर्थः । परन्तु सर्वे विश्वावसवन्तु विश्वावसुवद्गुणमात्रग्रहणतत्परा भवन्त्वित्यर्थः। 'विश्वावसवन्तु' 'कृशानवन्तु' इत्यत्र विश्वावसु-कृशानुशब्दाभ्यामाचारविपि धातुत्वाल्लोट् । तत्र च “सार्वधातुक-" इत्यादिना गुणः ५९७ १ 'सुप्रसन्नं'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy