SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४७] पदार्थचन्द्रिकाटीकासहिता । २९५ किं बहुना अपरीक्षितलक्षण-प्रमाणैरपरामृष्ट पदार्थसार्थतत्त्वैः ॥ अवशीकृतजैत्रयुक्तिजालैरलमेतैरनधीततर्कविद्यैः ॥ ५५८ ॥ निरूप्य अद्भुतस्तर्कपाथोधिरगाधो यस्य वर्धकः ॥ अक्षपादोऽतमस्पृष्टस्त्वकलङ्कः कलानिधिः ॥ ५५९ ॥ पुनरालोच्य सश्लाघम्ज्ञानाब्धिरक्षचरणः कणभक्षकश्च श्रीपक्षिलोऽप्युदयनः स च वर्धमानः ॥ गङ्गेश्वरः शशधरो बहवश्व नव्या ग्रन्थैर्निरुन्धत इमे हृदयान्धकारम् ॥ ५६० ॥ वक्तुमिच्छोः सतः जिह्वा प्रह्वा नम्रा, वाग्रहितेत्यर्थः । भवति । एतां कष्टां दुःखप्रदां कियती अनिर्वाच्यामिति यावत् । अवस्थां पश्यावलोकय । हे कृशानो, त्वमिति शेषः ॥ ५५७ ॥ अपरीक्षितेति । अपरीक्षितानि अनवलोकितानि अनभ्यस्तानीति यावत् । लक्षणानि असाधारणलक्ष्यधर्माः प्रमाणानि प्रत्यक्षानुमानादीनि च यैस्तैः अपरा. मृष्टानि अविचारितानि पदार्थानां द्रव्यगुणादीनां सार्थस्य समूहस्य तत्त्वानि यथास्थितस्वरूपाणि यैस्तैः अत एव अवशीकृतानि अखाधीनीकृतानि जैत्राणि जयशीलानि युक्तीनां जालानि येस्तैः एतादृशैः एतैः अनधीता अनभ्यस्ता तर्कविद्या तर्कशास्त्रं यस्तैः पुरुषैरलं पर्याप्तम् ॥ ५५८ ॥ अद्भुत इति । तर्कः न्यायशास्त्रमेव पाथोधिः समुद्रः अगाधः अतलस्पर्शः अद्भुत आश्चर्यकरश्च । यतो यस्य तर्कपाथोधेः वर्धकः तमसाऽन्धकारेण राहुणा अज्ञानेन च स्पृष्टः कृतस्पर्शः न भवतीत्यतमस्पृष्टः अक्षाणीन्द्रियाण्येव पादाः किरणा यस्य सः अक्षं नेत्रेन्द्रियं पादे चरणे यस्य सः गौतममुनिश्च अकलङ्कः निष्कलङ्कः निरपवादश्च “कलकोऽङ्कापवादयोः" इत्यमरः । कलानां षोडशभागानां चतुःषष्टिकलानां विद्यानां च निधिः चन्द्रः अस्ति ॥ ५५९ ॥ ज्ञानाधिरिति । ज्ञानानां स्वर्गापवर्गसाधकशास्त्रावबोधानां अब्धिः समुद्रः सर्वज्ञ इत्यर्थः । इदमेव प्रत्येकमभिसंवन्धनीयम् । अक्षचरणः श्रीगौतममुनिः षोडशपदार्थबोधकन्यायसूत्रकर्ता, कणभक्षकः कणादमुनिः सप्तपदार्थावबोधकसूत्रकर्ता, श्रीपक्षिलः, अपिः समुच्चायकः । उदयनः, स प्रसिद्धः वर्धमानश्च, गङ्गेश्वरः तत्त्वचिन्तामणिकारः, शशधरः, बहवो नव्याः पक्षधरमिश्र-रघुनाथशिरोमणि-विश्वनाथ For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy