SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७४ विश्वगुणादर्शचम्पू:- [वेदान्ति कृ०-समन्तादवलोक्य निस्तुला अप्यमी विषयाः शैवप्रचुरतया न श्लाघामर्हन्ति । अत्र हि तत्त्वहितपुरुषार्थानयथावस्थितानभिदधानाः शैवा विदुषोऽपि विमोहयन्ति ॥ २१८ ॥ तथाहि-- मदनजनके वीतातङ्के महागुणशेवधौ परमपुरुषे नित्यासक्तां श्रुतिं कमलामिव ॥ बत पशुपतौ शूलोपेते मनोभवदाहके निहितहृदयां शैवा जल्पन्त्यभाम्यहता इवं ।। ५१७ ।। ___ उक्तार्थाङ्गीकारपूर्वकमाह कृशानुः-निस्तुला इति । अमी विषया देशाः निस्तुला वेदविहितकर्म-ज्ञानविद्वहुजनसत्त्वानिरुपमा अपि, शिवस्य भक्ताः शैवास्ते प्रचुराः बहुला येषु ते तत्प्रचुरास्तेषां भावस्तत्ता तया हेतुना श्लाघां प्रशंसां नार्हन्ति, तस्याः न योग्या भवन्ति । सन्तु नाम शैवाः किं वा तेन प्रशंसानहत्वमिति चेदाहअत्रहीति । अत्र एषु देशेषु हि तत्त्वतः सत्यतया हिता हितकरा ये पुरुषार्थास्तान् अयथावस्थितान् स्थितिमतिक्रम्य वर्तमानान् विरुद्धखभावानिति यावत् । अभिदधानाः प्रतिपादयन्तः सन्तः, क्वचित् 'तत्पदार्थ यथावस्थितमनभिदधानाः' इति पाठः तत्पक्षे तदिति पदस्य शब्दस्य अर्थ ब्रह्मरूपं यथावस्थितं स्थितिनमति. क्रम्य वर्तमानं, यथास्थितस्वभावमित्यर्थः । अनभिदधानाः अकथयन्तः सन्त इत्यर्थः । शैवा विदुषोऽपि पुरुषान् किमुतान्यान् , विमोहयन्ति विभ्रमयन्ति ॥ २१८॥ मोहनप्रकारमेव स्पष्टतयाह-मदनजनक इति । वीताः गताः आतङ्काः रोगाः दोषाश्च यस्मात् तस्मिन् , महतां स्रष्टव-पालकलादीनां गुणानां शेवधौ निधौ मदनस्य कामस्य जनके पितरि परमपुरुषे देवानामपि श्रेष्ठपुरुषे विष्णौ निलं संततमासक्तां अनुरक्तां, अत एव कमलां लक्ष्मीमिव स्थितां श्रुतिं सर्वमपि वेदं शूलेन रोगेण, शूलनामकायुधविशेषेण चोपेते युक्ते पशूनां गवादीनां ब्रह्मादिदेवानां च पतिस्तस्मिन् मनोभवस्य मदनस्य दाहके शिवे निहितं अनुरक्तं स्थापितं च हृदयं मनः अभिप्रायश्च यस्याः सा तां श्रुति अभाग्येन प्राक्तनदुष्कर्मणा हता नष्टा इव शैवाः जल्पन्ति वर्णयन्ति । अत्र शैवानां तात्पर्य वर्णितं भावदर्पणकृता तदित्थम्'महतां अगुणानां कामक्रोधादीनां शेवधिर्यस्मात्तस्मिन् राग-द्वेषादिजनके अत एव मदनस्य स्मरविकारस्य जनके अत एव विशेषेण इताः प्राप्ताः आतङ्काः तापा १ 'अत्र हि तत्पदार्थ यथावस्थितमनभिदधानाः'. २ 'हतामिव', For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy