SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra -वर्णनम् ४३ ] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थचन्द्रिकाटीकासहिता । पराशरभुवा शास्त्रं ब्रह्मज्ञानाय निर्मितम् ॥ असमञ्जसतां नीतमद्वैतैब्रह्मवादिभिः ॥ ५११ ॥ किं च यादृशस्वभावः सर्वेश्वरस्तद्विपरीतमेव तैमुशन्ति विरुद्धमर्तय एते ॥ २१६ ॥ सर्वज्ञमज्ञ इति सर्वपदाभिधेयम् कस्याप्यवाच्य इति सर्वमहागुणानाम् ॥ स्थानं च निर्गुण इतीह समस्तवेद वेद्यं त्ववेद्य इति ते जगदीशमाहुः ॥५१२ ॥ किंबहुना - विविधदुरितत्रातस्फीतस्थिरव्यसनाकुलादतिमितमते जवादेवाभिदां परमेशितुः || अपगतपरिच्छेदामोदाम्बुधेरुपगच्छताम् २७१ मशकशिशुतोऽभेदो न स्यात्कुतो मदहस्तिनः || ५१३ ॥ 1 उक्तार्थमेव प्रपञ्चयति – पराशरभुवेति । पराशरभुवा श्रीमद्यासेन शास्त्रं सूत्ररूपं ब्रह्मणः ज्ञानाय ज्ञानार्थमेव, सकलजीवानामिति शेषः । निर्मितं रचितम् । तदपि द्वे जीव-ब्रह्मरूपे इते गते यस्मात् तद्वीतं द्वीतमेव द्वैतं जीव-ब्रह्मणोर्द्विरूपत्वं तन्न भवतीत्यद्वैतं जीवात्म - परमात्मनोरैक्यरूपं ब्रह्म एकमिति वदन्तीति तद्वादिभिः "आत्मा वा इदमेक एवाग्र आसीत् नान्यत् किंचन मिषत्" "एकमेवाद्वितीयम्” “तत्त्वमसि' इत्यादिबहुलश्रुत्यनुरोधेन जीवात्मनोरेकत्वप्रतिपादकैरित्यर्थः । असमञ्जसतां अयोग्यतां नीतं प्रापितम् ॥ ५११ ॥ किंचेति । किंच यादृशस्वभावः तत्त्वतो यत्प्रकाररूपो भगवान् सर्वेश्वरः तस्माद्विपरीतं विरुद्ध स्वभावमेव तं सर्वेश्वरं परमात्मानं उशन्ति इच्छन्ति । विरुद्धमतयः एते अद्वैतिनः ॥ २१६ ॥ सर्वज्ञमिति । ते अद्वैतवादिनः वस्तुतः सर्वे भूतभविष्यादि जानातीति सर्वज्ञः तं जगदीश अज्ञ: अल्पज्ञः ज्ञातुमशक्यश्च इति, आहुः कथयन्ति । एतदेव सर्वत्रान्वेतव्यम् । सर्वेषां पदानां शब्दानां अभिधेयं वाच्यं जगदीश, कस्यापि पदस्य अवाच्यः इति, सर्वेषां महागुणानां स्रष्टृत्वादीनां स्थानभूतं जगदीशं निर्गुण: सत्त्व- रजआदिगुणरहितः इति, समस्तैः सर्वैरपि वेदैर्वेद्यं ज्ञेयं, तुपदं विरोधसूचकम् । अवेद्यः “विज्ञातारमरे केन विजानीयात्" इत्यादिश्रुतिभिः अज्ञेय इति च आहुः ॥ ५१२ ॥ विविधेति । विविधानामनेकेषां दुरितानां पापानां व्रातेन समूहेन स्फीतैः १ 'भोक्त, वेद्यं'. २ 'तमुपदिशन्ति' ३ 'बुद्धयः". ४ 'तं'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy