SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ विश्वगुणादर्शचम्पू:- शठकोपमुनि हर्यद्धिपङ्करहकिङ्करतारताश्चे दकप्रसक्तिरकलङ्कहृदां क ? तेषाम् ॥ ५०३ ॥ यत्पुनरभिहितं फणिवर्यपर्यङ्ककैंकर्यार्थ पर्यटनमपि तुर्याश्रमाननुगुणमिति तदपि निपुणनिरूपणविरह विजृम्भितम् ।। २१० ॥ केचन पङ्कजलोचनकैङ्कायैव पर्यटाट्यन्ते ॥ संन्यासिन इह धन्यास्ते. हि खत उपगतस्पृहाविरहाः ॥५०४॥ इत्थं हि हेयोपादेयविद उदाहरन्ति ॥ २११ ॥ भोगायैव नितम्बिनीपरिणयो यागाहृतिः ख्यातये खार्थे पाककृतिः कुपात्रविषये त्यागार्थमर्थार्जनम् ॥ हरेर्विष्णोरङ्गी चरणावेव पङ्कहे कमले, पङ्कह इति प्रामादिकम् । “तत्पुरुषे कृति-" इत्यलुग्विधानात् । “पङ्केरहं तामरसं" इत्यमरोऽपि । बाहुल्याद्वा कथंचित् समाधेयम् । तयोः किङ्करतायां दास्ये रतास्तत्पराश्चेत् यदि भवेयुस्तर्हि, तत एव अकलई दोषरहितं हृदन्तःकरणं येषां तेषां यतीनां अकस्य कलङ्कस्य "उत्सङ्ग-चिह्नयोरङ्कः कलकोऽङ्कापवादयोः।" इत्यमरः । प्रसक्तिः संबन्धः क्व संभवति ? हरिभक्तिप्रभावादेव धनार्जनादिरूपाः क्षुद्रदोषा नश्यन्तीति भावः । तदुक्तं भगवतैव"अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः-" इत्यादि ॥ ५०३ ॥ यदिति । यत् पूर्व फणिवर्यः शेषः पर्यङ्कः शयनं यस्य तस्य विष्णोः कैकार्थ दास्यार्थ पर्यटनं परिभ्रमणमपि तुर्याश्रमस्य चतुर्थाश्रमस्य अननुगुणमयोग्यमिति "दभिहितं 'संन्यासाश्रममाश्रितोऽपि-' इत्यादिना प्रतिपादितं तत्प्रतिपादनत्सया निपुणं सविवेकं यनिरूपणं अवलोकनं तस्य विरहेणाभावेन विजृम्भितं भ्यः अनम् ॥ २१० ॥ कचनति । केचन संन्यासिनः पर्यटाट्यन्ते पुनःपुनरतिशयेन वा परिभ्रमन्ति, राजधानीमिति शेषः। 'अट गटौ' इत्यस्मात् यङि रूपम् । ते पङ्कजलोचनस्य भगवतो विष्णोः कैङ्कायैव दास्यार्थमेव, एवकारेणेतरदोषारोपव्यवच्छेदः । अत एव खतः उपगतः प्राप्तः स्पृहायाः इच्छायाः विरहः अभावो येषां तथाभूताः निःस्पृहा इत्यर्थः । सन्ति । अत एव च ते इहलोके धन्याः सुकृतिनः हि एव ५०४ इत्थमिति । हेयं त्याज्यं उपादेयं ग्राह्यं च ते उभे विदन्ति जानन्तीति तद्विदः ते, इत्थं वक्ष्यमाणप्रकारेण उदाहरन्ति कथयन्ति ॥ २११॥ भोगायैवेति । यदि नितम्विन्याः स्त्रियाः परिणयः विधिवत् पाणिग्रहः भोगायैव कामवासनापूरणायैव आचर्यते तदा दुष्येत् निन्द्यो भवेत् प्रत्यवायमुत्पादयेदिति वा । एवकारः यदि आचर्यते दुष्येदिति च प्रतिवाक्यमन्तव्यम् । न तु सं १ पङ्कप्रसक्ति'. २ पर्यटन्तेऽमी'. ३ 'खार्थः'. ४ विषय'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy