SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वर्णनम् ४१] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थचन्द्रिकाटीकासहिता । २६१ अत्रत्यानां धर्मनिरतानां हरिभृत्यानामित्थमनुसंधानम् ॥२०६॥ परिदृष्टवते सहखशाखां परमां द्राविडसंहितां हितां नः ॥ गुरवे करवाम नित्यमस्मै शठकोपाय महर्षये प्रणामान् ॥ ४८९ ॥ अञ्चाम चिञ्चातरुमद्भुतं तं पञ्चामरद्र्नवधीरयन्तम् ॥ शठारिसंज्ञं किल यस्य मूले तपः फलं किंचिदुदञ्चितं नः ॥ ४९० ॥ दिशन् श्रितानाममृतात्मकं फलम् विलक्षणो भाति स तिन्तिडीतरुः ॥ सहस्रशाखं द्रविडागमं सृजन् स यस्य मूलं समुपाश्रितो मुनिः ॥ ४९१ ॥ नगरी विरक्तैर्विषयवैतृष्ण्याद्धेतोः परिपनिमा फलाभिमुखा त्रियुगे विष्णौ भक्तिर्येषां तथाभूतैर्वैष्णवैः विष्णुभक्तैः करणैः चकास्ति प्रकाशते ॥ ४८८ ॥ नत्रत्यानामिति । अत्रत्यानां कुरुकापुरनिवासिनां धर्मनिरतानां पुण्यकर्मतत्पराणां हरेर्भृत्यानां सेवकानां इत्थं वक्ष्यमाणप्रकारकमनुसंधानं चिन्तनम् ॥ २०६॥ परीति । सहस्रं चतस्रः शाखा विभागाः यस्यास्तां, सहस्रसंख्यायाश्चतुर्थंस्थानत्वाच्चतुर्षु सहस्रशब्दस्यौपचारिकः प्रयोगः । अत एव परमां महतीं द्राविडैः पठनीयां संहितां, नः अस्माकं वैष्णवानां हितां हितकारिणीं परिदृष्टवते सम्यगवगच्छते, 'परिसृष्टवते' इत्यपि पाठः तत्पक्षे परिसृष्टवते उत्पादयित्रे इत्यर्थः । शठकोपाय गुरवे महर्षये अस्मै नित्यं प्रणामान् नमस्कारान् करवाम कुर्मः । क्रियार्थोपपदस्य - " इत्यादिना चतुर्थी । 'स्वयंभुवे नमस्कृत्य' इत्यादिवत् । तेन शठकोपायेत्यस्य तमनुकूलयितुमित्यर्थः ॥ ४८९ ॥ a ८८ अञ्चामेति । यस्य चिश्चातरोर्मूले नः अस्माकं वैष्णवजनानां किंचिदनिर्वाच्यं शठारिसंज्ञं शठारिमुनिरूपमित्यर्थः । तपःफलं उदञ्चितं प्रकटीभूतं किल, तं पश्च अमरहून् मन्दार- पारिजातादिदेववृक्षान् । “पञ्चैते देवतरवो मन्दारः पारिजातकः । संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ।" इत्यमरः । अवधीरयन्तं तिरस्कुर्वन्तं अत एव अद्भुतमाश्चर्यावहं चिचात्तरुं तिम्तिडीवृक्षं अञ्चाम पूजयाम | 'अक्षु गति - पूजनयो:' इलस्य लोडत्तमपुरुषः ॥ ४९० ॥ दिशन्निति । यस्य तिन्तिडीतरोः मूलं सः प्रसिद्धः सहस्रशाखं द्रविडागमं द्रविडवेदं सृजन्नुत्पादयन् मुनिः शठारिसंज्ञः समुपाश्रितः, सः श्रितानामाश्रितानां अमृतात्मकं मोक्षरूपं पीयूषरूपं च फलं दिशन् समर्पयन् अत एव विलक्षण: आचर्यावहः स्वस्य आम्लमयत्वात् अमृतफलप्रदत्वेनेति भावः । तिन्तिडीतरुः भाति शोभते ॥ ४९१ ॥ १ 'धर्मनित्यानां', 'धर्मनित्यानां इरिभृत्याना' २ 'परिसृष्टवते'. • For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy