SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरी - यतःखज्येष्ठप्रेर्यहर्याश्रितरथघृणिमन्मण्डलस्थाच्युताप्यम् सन्मार्ग पक्षवातोद्गतधरणिरजश्छन्नमेतज्जवेन ॥ कल्लोलैरुल्लसद्भिः प्रचलजलनिधेः क्षालयन्पूर्णदर्णः प्रेडड्डिण्डीरखण्डच्छलकुसुमकुलैमण्डयत्यण्डजेन्द्रः ॥४३४॥ पुनरभिध्यायन्यद्वीक्षा धैर्यरक्षां किल पुलकभृतां धावतां दैवतानाम् __ सेवासंमर्दकाले गिरिशफणिगणाद्विभ्यतामभ्यतानीत् ।। सोऽयं गाङ्गेयपृथ्वीधरवरशिखरच्छायदायाँदकाय श्छिन्दन्वृन्दं रिपूणां कलयतु कुशलं छान्दसो नः शकुन्तः।।४३५॥ स्वज्येष्ठेति । अण्डजेन्द्रः पक्षीन्द्रः गरुडः पक्षयोः पत्रयोर्वातेन उद्गतं ऊर्ध्व गतं यद्धरण्याः पृथ्व्याः रजस्तेन छन्नं आच्छादितं खस्य ज्येष्ठेन ज्येष्ठभ्रात्रा अरु. णेन प्रेर्याः प्रेरणीयाः ये हरयोऽश्वाः “यमाऽनिलेन्द्रचन्द्राकविष्णुसिंहांशुवाजि. षु । शुकाहि-कपि-भेकेषु हरिर्ना कपिले त्रिषु ।" इत्यमरः । तैराश्रितो रथो यस्य स चासौ घृणिमान किरणवान् सूर्यश्च तस्य मण्डले तिष्ठतीति तत्स्थः यः अच्युतो विष्णुः तेन आप्यं प्राप्यं अत एव सन्मार्गमुत्तमाध्वानमाकाशं च एतस्य पक्षवातस्य जवेन वेगेन प्रचलः प्रकर्षण चञ्चल: यः जलनिधिः समुद्रः तस्य उल्लसद्भिः उद्भ. यमानैः कल्लोलैः महातरङ्गैः क्षालयन् सन् , घूर्णतः क्षुभ्यतः अर्णसः समुद्रोदकात् प्रेक्षन्ति निर्गच्छन्ति यानि डिण्डीरस्य फेनस्य खण्डानि शकलानि तेषां छलं व्याजो येषां तथाभूतानि यानि कुसुमकुलानि पुष्पवृन्दानि तैः मण्डयति भूषयति च॥४३४॥ यद्वीक्षेति । सेवायां भगवत्पूजायां यः संमर्दः युगपदेकत्र बहुजनानां समागमः तत्काले गिरिशस्य शंकरस्य फणिगणात् सर्पसमुदायात् बिभ्यतां अत एव पुलकभृतां भयाद्रोमाञ्चयुक्तानां अत एव च धावतां पलायमानानां दैवतानां देवानां यस्य गरुडस्य वीक्षा दर्शन धैर्येण रक्षा रक्षणं अभ्यतानीत् विस्तारयामास चका. रेति यावत् । किल निश्चयेन । गाङ्गेयपृथ्वीधरस्य सुवर्णपर्वतस्य मेरोः वरशिखराणां उत्तमशृङ्गाणां छाया इति वरशिखरच्छायं "छाया बाहुल्ये' इति नपुंसकत्वम् । तस्य दायादः भागहरः कायः शरीरं यस्य सः, मेरुशिखरवत् वर्णकान्तिरित्यर्थः । सः अयं छान्दसः वेदप्रतिपाद्यः शकुन्तः पक्षी गरुडः नोऽस्माकं रिपूणां शत्रूणां वृन्दं समूहं छिन्दन् विनाशयन् सन् कुशलं कल्याणं कलयतु करोतु॥४३५॥ १ रुळलद्भिः'. २ याचताम्'. ३ च्छायसच्छायकायो भिन्दन्'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy