SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ विश्वगुणादर्शचम्पू:- [ श्रीरङ्गनगरीपुनरनुध्याय साञ्जलिबन्धम्मातस्ते मधुसूदनप्रणयिनि ! प्रातः सरोजच्छटा मुष्टीमुष्टिविचक्षणे शुभगुणे दृष्टी नमस्कुर्महे ।। अष्टाभिः किल दृष्टिभिश्च तिर्सेभिर्जुष्टाः सहस्रेण वा देवा द्वादशभिश्च यद्विषयतामेवार्थयन्ते क्षणम् ॥ ४३० ॥ इत्यन्यतो वीक्ष्य सामोदम्उपरिपुनिग्रहपैविग्रहदिवौकश्चक्रवृतशक्रमदविक्रमनिहन्ता ॥ मोदरसमादरसमेत इह पूर्णः प्रक्षिपतु पक्षिपतिरक्षियुगले मे ॥४३१॥ कृ०—किं वर्णयसि सुपर्णममुमतिक्रान्तमर्यादम् ? ॥ १८० ॥ शाश्वतसुखप्रदत्वेन प्रसिद्ध, तुरवधारणार्थकः । अन्तःपुरं स्त्री लक्ष्मी, अवनौ पृथिव्यां अनुचिन्तयन्ति ध्यायन्ति ॥ ४२९ ॥ मातरिति । हे मधुसूदनस्य विष्णोः प्रणयिनि, मातः लक्ष्मि ! ते तव प्रातः प्रातःकाले सरोजानां कमलानां छटा समूहः तया मुष्टीमुष्टि मुष्टिभ्यां मुष्टिभ्यां प्रहृत्य प्रवृत्तं युद्धं तस्मिन् “ इच् कर्मव्यतिहारे" इति समासान्त इच्प्रत्ययः । विचक्षणे कुशले, कमलशोभामपि तुच्छीकुर्वन्त्यावित्यर्थः । शुभगुणे कल्याणगुणयुक्ते दृष्टी नम. स्कुर्महे । किंवा दृष्ट्योरेतावन्माहात्म्यं यत्ते नमस्करोषि इति चेदाह-ययोदृष्ट्योः विषयतां गोचरता, अष्टाभिरष्टसंख्याकाभिः दृष्टिभिः, अनेन चतुर्मुखब्रह्मावबोधः, तिसृभिश्च दृष्टिभिः, अनेन त्र्यम्बकस्य शिवस्य प्रहणं, सहस्रेण दृष्टिभिः सहस्रसंख्याकलोचनैरित्यर्थः । अनेनेन्द्रः, द्वादशभिर्दृष्टिभिश्च अनेन षडाननश्चोक्तः, जुष्टा युक्ता देवाः क्षणं क्षणमात्रमपि अर्थयन्ते याचन्त एव ॥ ४३० ॥ उप्रेति । उग्राणामपि रिपूणां शत्रूणां निग्रहः पराभवो यस्मात् तादृशः यः पविर्वजं तस्य प्रहःखीकारो यस्यास्ति तादृशो दिवौकसां देवानां चक्रेण समूहेन वृतो यः शक इन्द्रस्तस्य मदस्य गर्वस्य विक्रमस्य पराक्रमस्य च, मदकरो गर्वोत्पादको यो विक्रम इति वा तस्य निहन्ता विनाशयिता । अमृताहरणसमये इत्यर्थः अत एव पूर्णः सकलगुणैः परिपूर्णः आदरेण प्रेम्णा समेतः युक्तः पक्षिपतिर्गरुडः इह मे अक्षियुगले नेत्रयुग्मे मोदरसमानन्दरसं प्रक्षिपतु योजयतु। इन्दुवदना वृत्तम् “ इन्दुवदना भ-ज-स-नैः सगुरुयुग्मैः” इति वृत्तरत्नाकरे तल्लक्षणात् ॥ ४३१॥ किमिति । अतिक्रान्ता उल्लचिता मर्यादा स्थितियेन तममुं सुपर्ण गरुडं किं कुतः कारणात् वर्णयसि ? ॥ १८ ॥ १ देवीमुद्दिश्य'. इ० अ० २ 'चतसृमि'. ३ 'दविग्रह'. ४ 'पूर्ण'. ५ प्रक्षिपति'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy