SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ विश्वगुणादर्शचम्पू: [ श्रीरङ्गनगरी द्भक्तिसंपदं प्रदत्ते दूरापास्तमारामयविकारा वाराशिदुहितुरुदारकटाक्षसा धुसुधाधारा ॥ ९७७ ॥ संभोगारम्भजृम्भन्मदकितवपरीरम्भसम्पीड्यमानप्रौढस्त्रीरत्नहारप्रशिथिल गुणवद्भङ्गुराः सम्पदोघाः ॥ साधूनां मा स्म भूवन्सुरपुरनिरसीकारक्षं हि लोके भोक्ष्यन्ते मोक्षमन्ते स्थिरनिरवधिका नन्दधारात्मकं ते ॥ ४२६ ॥ किंच लक्ष्मीकटाक्षपूरः स जयति यदुपचयतारतम्येन ॥ नरसुरपशुप्रजानां पतयः स्युर्हन्त जन्तवः केऽपि ॥ ४२७ ॥ यति इति भणितं ' येषामन्यकलत्र - ' इत्यादिना प्रतिपादितं तदज्ञानेन तत्त्व - तोऽवबोधाभावेन उपबृंहितमुपवृद्धमेव । यतो हेतोः वाराशिदुहितुः समुद्रकन्याया लक्ष्म्याः दूरं अपास्तस्त्यक्तः मारः काम एव आमयो रोगस्तस्य विकारो यया सा उदारा मोक्षपर्यन्तानन्तसुखप्रदत्वान्महान्तो ये कटाक्षास्तद्रूपा या साध्वी उत्तमा सुधाधारा अमृतसंपातः मुक्त्यैश्वर्य मोक्षरूपा भूतिः पर्यन्ते अवसाने यस्यास्तादृशीं निरन्तरां अविच्छिन्नां भगवति विष्णौ भक्तिसंपदं प्रदत्ते प्रददाति ॥ १७७ ॥ , 'दूरापास्तमारामयविकारा' इति यलक्ष्मीकटाक्षाणामुदारत्वमुक्तं तदेव सहेतुकमुपपादयति-संभोगेति । संभोगस्य सुरतसुखस्य आरम्भे जृम्भन्तः उद्यन्तः मदयुक्ताश्च ये कितवा धूर्तास्तेषां परीरम्भेणाश्लेषेण संपीड्यमानाः प्रौढस्त्रीणां तरुस्त्रीणां रत्नहाराणां प्रशिथिला अतिशयशिथिला ये गुणाः सूत्राणि तद्वत् भङ्गुरा विनाशिनः क्षणमात्रनश्वरा इत्यर्थः । संपदां ओघाः समूहाः साधूनां सततपरोपकारतत्पराणां सज्जनानां मा स्म भूवन् मा भवन्तु, एतादृशनश्वरसंपदां नैव तेषामपेक्षेति भावः । हि यस्मात् कारणात् लोके ते साधवः सुरपुरस्य स्वर्गस्य निरसीकारे नीरसीकरणे तुच्छीकरणे इत्यर्थः । दक्षं समर्थ, तस्याप्यनित्यत्वात् । तदुक्तं भगवतैव - " त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्रा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् ॥ ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।" इति । श्रुतिरपि - " तद्यथेह कर्मजितो लोकः क्षीयते एवमेवामुत्र पुण्यजितो लोकः क्षीयते' इति । किं तर्हि स्थिरसुखं यत्साधुभिरुपभुज्यते इत्याकाङ्क्षायामाह - स्थिरा कालत्रयेऽप्यनश्वरा अत एव निरवधिका निःसीमाच अनुत्तमेत्यर्थः । आनन्दस्य धारैव आत्मा स्वरूपं यस्य तं मोक्षं मुक्ति अन्ते देहावसाने भोक्ष्यन्ते ॥ ४२६ ॥ लक्ष्मीति । सः पूर्वोक्तरीत्या प्रसिद्धः लक्ष्म्याः भगवत्याः कटाक्षाणां पूरः अति १ 'संप्रदत्ते दूरापास्ततमोमयविकारा वाराशिदुहितुरुदाराः कटाक्षाः साधुसुधाधाराः '. २ 'निरयीकार' ३ 'दक्षा'; 'दक्षो. ' For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy