SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २ ] पदार्थचन्द्रिकाटीकासहिता । कासाराणां हरति विभवं क्लोन्तिशान्तिप्रदानाम् क्रूरस्यैवं गुणलवकथा का ? खतो भाखतोऽस्य ॥ ८ ॥ विश्वावसुः - किमरे भगवन्तमरविन्दबान्धवमपि विनिन्देसि ? शृणु पुरोभागिन् ॥ २ ॥ वृष्टिं दृष्टिभिरारचय्य जगतस्तुष्टिं सरीसष्टि यः पुष्टिं द्वारा विशिनष्टि दृष्टिषु नृणां ध्वान्तं पिनष्टि स्थिरम् || प्राज्ञानामपवर्गमार्गदममुं पद्मागृहोल्लासिनं को न स्तौति ! समस्तलोकसुहृदं द्योभूषणं पूषणम् ॥ ९ ॥ ७ ओषधीः फलपाकानन्तरं नाशवन्तो व्रीहि-यवादयः " ओषध्यः फलपाकान्ताः" इत्यमरः । मनुरपि - " ओषध्यः फलपाकान्ता बहुपुष्प फलोपगाः" इत्याह । शोषयति सत्त्वहीनाः करोति च । ननु पान्थानां पथि जलपानप्राप्तेः क्लेशः सुपरिहर इत्याशय, तदपि दुर्लभमित्याह- कासाराणामिति । क्लान्तिशान्तिप्रदानां श्रमशान्तिकराणां प्रदद तीति प्रदाः क्लान्तेः शान्तिप्रदास्तेषामिति विग्रहः " आतश्चोपसर्गे -" इति कः । कासाराणां सरोवराणां " कासारः सरसी सरः" इत्यमरः । विभवं जलरूपमैश्वर्ये हरति नाशयति । एवं च दीनानां पथि जलपानमात्रं साधनमपि विनाशयतीति भावः । एवमित्थं स्वभावतः क्रूरस्य निर्दयस्य, अस्य पुरतो दृश्यमानस्य भाखतः सूर्यस्य "भास्वद्विवस्वत्सप्ताश्व -" इत्यमरः । गुणानां सद्गुणानां लवस्य लेशस्यापि "लव-लेशकणाणवः" इत्यमरः । कथा वार्ता का ? अपि तु नास्तीत्यर्थः । अत्र ' पान्थान् दीनान् आतपान्धान् विधत्ते' इत्यादिवाक्यं क्रूरत्वस्य हेतुरूपं, तस्मात् काव्यलिङ्गमलंकारः “काव्यलिङ्गहेतोर्वाक्यपदार्थता" इति तलक्षणात् । मन्दाक्रान्ता वृत्तम् । " मन्दाक्रान्ता जलधि-षडगैम्भ न-तौ ताद्गुरू चेत्” इति तलक्षणात् ॥ ८ ॥ एवं तद्वचनं श्रुत्वा न भवता सम्यग्विचारितमित्यभिप्रेत्य सतिरस्कारमाह विश्वावसुः - किमरे इति । अरे कृशानो, भगं तेजोऽस्यास्तीति भगवान् " ऐश्वर्यस्य समग्रस्य तेजसो यशसः श्रियः । ज्ञान-वैराग्ययोश्चैव षण्णां भग इतीङ्गना" इति । तं न केवलं तेजोयुक्तमेव, अपि तु अरविन्दबान्धवं अरविन्दानां कमलानां विकासकरणात् बन्धुसदृशं एतादृशमपि सूर्य निन्दसि ? अत एव हे पुरोभागिन् दोषैकदृष्टे, शृणु आकर्णय एतद्वक्ष्यमाणमिति शेषः ॥ २ ॥ किमाकर्णयेतिचेत्तदाह-वृष्टिमिति । यः सूर्यः पृष्टिभिः किरणैः “पृष्टिर्वराहे रश्मी च सूर्ये पुंस्यौषधौ स्त्रियाम्” इति शब्दरत्नमञ्जूषायाम् । वृष्टिं वर्षणं आरचय्य कृत्वा, 'रच प्रतियत्ने' इत्यस्माण्णिजन्ताध्यप् “ल्यपि लघुपूर्वात्" इति णेरयादेशः । सर्वतः किरणान् प्रसार्येति यावत् । जगतः तुष्टिं तोषं सरीसर्टि अतिशयेनोत्पादयति 'सृज १ 'कान्त'. २ 'विनिन्दयसि '. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy