SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता। २१५ री व्याचक्षमाणानां मदकलमरालयूनां वरटापरिरम्भचुम्बनमुखानङ्गसङ्गरप्रक्षोभसमुत्सृत्वैरैरभिरामतामरसपरागैरभिनवचन्दनरसमसृणशरीरेव । सलीलमाकण्ठनिमममूर्तीनां सुगात्रीणां वदनैरदसीये पयसि विहायसाध्यासेन समागतश्चन्द्रमाः सन्निहितश्रीरङ्गधामा खसमाननामा विधुर्विरचितानेकावतार इतीर्ण्यया खयमपि बहूनि रूपाणि विदधानो विराजत इति भ्रान्त्यां सत्यामनुरागमान्द्यसंपादिकायामितरेतरदृढाश्लेषविशेषोन्मिषत्तोषाभिः कोकदम्पतीपरम्पराभिर्निराकृतायामकुण्ठोत्कण्ठेन युवलोकेन निर्निमेषमवलोक्यमानैरलंकृता सरर्खत्याभिमुख्येन कवेरात्मजेति प्रसिद्धिं सार्थवेदानां पठनेन मुखरा शब्दायमाना या चतुर्मुखवैखरी ब्रह्मवाणी तो व्याचक्षमाणानां स्पष्टीकुर्वतां मदकलानां मदोत्कटानां “मदोत्कटो मदकल:" इत्यमरः । मरा. लयूनां तरुणहंसानां वरटाभिः योषिद्भिः सह "हंसस्य योषिद्वरटा" इत्यमरः । परिर. म्भः आलिङ्गन चुम्बनं च मुखं मुख्यं यस्मिस्तादृशं यदनङ्गसंगरं मदनयुद्धं सुरता. चरणमित्यर्थः । तस्य प्रक्षोभेन समुत्सृत्वरैः निःसृतैः, समुत्पूर्वकात्सर्तेः "इण-नश्जि-सर्तिभ्यः-" इति क्वरप् प्रत्ययः; पित्त्वात्तुगागमः । अभिरामतामरसपरागैः मनोहरकमलरजोभिः अभिनवचन्दनरसेन मसृणमुपलिप्तं शरीरं यस्याः सेव, तथा सलील यंथा तथा आकण्ठं कण्ठपर्यन्तं निमग्नाः जलाच्छादिताः मूर्तयो देहा यासां तासां सुगात्रीणां सुन्दरशरीराणां स्त्रीणां वदनैः मुखैः, हेतौ तृतीया । अदसीये अस्याः कावेर्याः संबन्धिनि पयसि जले विहायसाध्यासेन आकाशभ्रान्या समागतश्चन्द्रमाः संनिहितं समीपं श्रीरङ्गस्य भगवतः धाम स्थानं यस्य सः तथाभूतः सन्, आत्मना समानं तुल्यं नाम विधुरिति यस्य सः, विधुः विष्णुः “विधुर्विष्णौ चन्द्रमसि" इत्यमरः । विरचिताः धृताः अनेके बहव अवतारा येन तथोक्तः इति एवंरूपया ईयेया अक्षमया स्वयं चन्द्रमा अपि बहूनि रूपाणि विदधानः धारयन् सन् विराजति शोभते । इत्येवंरूपायां अनुरागस्य प्रेम्णः मान्द्यसंपादिकायां मन्दत्वोत्पादिकायां भ्रान्त्यां सत्यां, ततः इतरेतरदृढाश्लेषे परस्परदृढालिङ्गने विशेषेणातिशयेन उन्मिषन् उत्पद्यमान: तोषः संतोषो यासां ताभिः कोकदम्पतीपरंपराभिः चक्रवाकमिथुनपङ्किभिः निराकृताया, 'यद्येते सर्वे चन्द्राः स्युस्तर्हि नास्माकं परस्परालिङ्गनं संभवति, परं चेदानीमेतत्संभवति, तस्मानेमे चन्द्राः, किंतु स्त्रीणां मुखान्येव' इति निवारिताया सत्यां, अकुण्ठा अप्रतिहता उत्कण्ठा यस्य तेन युवलोकेन तरुणजनेन निर्निमेषं नेत्रमीलनरहितं यथा स्यात्तथा अवलोक्यमानैः स्त्रीमुखैरिति शेषः । अलंकृता, सरखत्याः वेदशास्त्रवाण्याः सरखति समुद्रे च आभिमुख्येन सांमुख्येन पण्डितबाहुल्यात् १ 'आचक्षमाणानां'. २ परिचुम्बचुम्बन'. ३ 'विसृत्वैरः. ४ 'मसृणित'. ५ 'वैहायसाध्वना'. ६ 'भ्रान्तावनुराग'. ७ 'अवलोकनैः' 'अवलो कमानेन'. ८ 'सारस्वत्याभिमुख्येन'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy