________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३२ ]
पदार्थचन्द्रिकाटीकासहिता ।
वाशिगभीराम्भसि काराभवनेऽभि - प्रस्तामिह मुस्तामिव यस्तामुदहार्षीत् ॥ ३८७ ॥ सभक्तिप्रकर्षं यज्ञवराहमभिध्यायन् तमामन्त्र्य - द्राघिष्ठं कुहनावराह ! भगवन्दंष्ट्रात्मकं ते हेटस्तम्भं संप्रति चिन्तयामि जलधिस्नेहौघसंपूरिता || यस्मिन्विन्दति दीपभाजनविधामामोदिनी मेदिनी चित्रस्तत्र च रत्नसानुरयते निष्कम्पदीपाकृतिम् ॥ ३८८ ॥
२११
' इण् गतौ' इत्यादादिकात् तुमुन् । “ एत्येधत्यूट्सु – ” इति वृद्धिः । कः पुरुषः अलं समर्थः ? । कोपि नैवेत्यर्थः । यतः यः शुभानि भक्तकल्याणानि कामयते वाञ्छति तच्छीलः स्वामी सकलजगदधिपतिः वराहः, असुरेण हिरण्याक्षनामक दैत्येन आर्ता पीडितां भूमिं पृथ्वीं, वाराशेः समुद्रस्य गभीरे निम्ने अम्भसि उदके तद्रूपे इत्यर्थः । काराभवने बन्धनालये " कारा स्याद्बन्धनालये" इत्यमरः । स्थितां तां पृथ्वीं अभिग्रस्तां भक्षितां मुस्तामिव वराहभक्ष्यदूर्वा सदृशद्रव्यविशेषमिव 'नागरमोथा' इति महाराष्ट्रभाषाप्रसिद्धमिवेत्यर्थः । इह लोके उदाहार्षीत् समुद्दधार । तं कोलमिति संबन्धः । अस्य वृत्तस्य वृत्तरत्नाकरादौ लक्षणं नोपलभ्यते । चित्रवृत्ते - वस्यान्तर्भावः (?) ॥ ३८७ ॥
एवं संवर्ण्य भक्त्या तमेव चिन्तयति - द्राधिष्ठमिति । कुहनया दम्भेन कपटेनेति यावत् " कुहना दम्भचर्यायामीर्ष्याला कुहनस्त्रिषु । इति मेदिनी । वराहः सूकररूपधरः तत्संबोधने हे कुहनावराह हे भगवन्, ते दंष्ट्रात्मकं दंष्ट्रारूपं द्राघिष्ठ अतिदीर्घ दृढस्तम्भं अशिथिलस्तम्भं संप्रति इदानीं चिन्तयामि स्मरामि । यस्मिन् स्तम्भे जलधिः समुद्र एव स्नेहौघः तैलपूर: तेन संपूरिता, अत एव आमोदिनी आनन्दवती मेदिनी पृथ्वी दीपभाजनस्य दीपपात्रस्य विधां प्रकारं विन्दति प्राप्नोति । किंच तत्र पात्रे चित्रः चित्रवर्णः रत्नसानुः सुमेरुः " मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः । इत्यमरः । निष्कम्पः चलनरहितः अकृत्रिमत्वाज्जडत्वाच वातादिभयाभावादित्यर्थः । स चासौ दीपश्च तस्य आकृति आकारं अयते प्राप्नोति । तं स्तम्भमिति संबन्धः ॥ ३८८ ॥
"
१ " न्यस्तामिव यस्तामिव मुस्तामिद'. २ ' तद्दृढम्', 'ते दृढम्' ३ 'संपू
•
रितम्'.
For Private And Personal Use Only