SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ विश्वगुणादर्शचम्पू: [ तुण्डीरमण्डल कृशानुः — हन्त एतस्मिन् अन्तिमयुगेऽपि अध्वरकर्माचरताममीषां चरितानि कथमिव रोचेरन् कोविदेभ्यः ? || १५६ ॥ न ऋत्विक्संपत्तिर्न च कुशलता यष्टुरनघा न च द्रव्यं शुद्धं न च हृदयशुद्धिः कलियुगे ॥ प्रसिद्धिं कान्तः परिमितधनं हन्त कृपणा काङ्क्षन्तः वृथा पश्वालम्भं विदधति तथापि क्षितिसुराः || ३६२ ॥ किंच शौचं नाचरितुं यथाविधि कलौ शक्ता द्विजाः किंच ते ये' खल्वाचमनाप्लवादिनियमास्तान् स्मर्तुमप्यक्षमाः । कामीषां पुनरग्निहोत्रनियमः केष्टेरनुष्ठानैधीः काग्निष्टोममुखा मखाः सपशुकाः कत्यग्निचित्या तु सा ॥ ३६३ ॥ १ 'परिमितधना'. ४ 'कत्याग्निचित्यादयः '. हन्तेति । अस्मिन् अन्तिमयुगे चरमयुगे कलियुगे इत्यर्थः । " अन्तो जघन्यं चरममन्त्य-पाश्चात्य-पश्चिमम् ।" इत्यमरः । अध्वरकर्म यज्ञकर्म आरभतां कुर्वाणानां अमीषां लोकानां चरितानि कोविदेभ्यः बुधेभ्यः कथमिव रोचेरन् ? कलौ यज्ञकर्मणां निषेधादिति भावः ॥ १५६ ॥ कलौ यज्ञकरणानर्हत्वमेवाह - नेति । कलियुगे ऋत्विजां मन्त्र- तद्विनियोगादिज्ञानिनां संपत्तिः सुलभत्वं न, तथा यष्टुर्यजमानस्य " यष्टा च यजमानश्च" इत्यमरः । अनघा निर्मला, एतत्पूर्वत्राप्यनुसंधेयम् । कुशलता निपुणता न च नास्त्येव, तथा धनं द्रव्यं शुद्धं अगर्हितोपायलब्धं न च किंच हृदयस्यान्तःकरणस्य शुद्धिः काम-क्रोधादिराहित्यं च न, तथापि कृपणाः द्रव्यव्ययकातराः क्षितिसुरा ब्राह्मणाः, प्रसिद्धि 'अयं यज्ञकर्ता, अयं दीक्षितः, अयं सोमयाजी' इत्यादिरूपां प्रख्यातिं काङ्क्षन्तः वाञ्छन्तः सन्तः परिमितं अल्पं धनं यस्मिन् अल्पद्रव्यव्ययसाध्यमित्यर्थः । वृथा सम्यगृत्विगादिसंपत्त्यभावाद्यर्थमेव पशोः यज्ञीयमेषादेः आलम्भं वधं विदधति कुर्वन्त्येव ॥ ३६२ ॥ अपि च शौचमिति । किंच कलौ युगे ये द्विजाः शौचं मृज्जलादिना शरीरशुद्धि 1 यथाविधि शास्त्रविधिमनतिक्रम्य आचरितुं न शक्ताः न समर्थाः, ते द्विजाः आचमनं आप्लवः स्नानं च तौ आदी येषां ते ये नियमाः खाध्यायादयः खलु प्रसिद्धाः सन्ति, तान् नियमान् स्मर्तुमपि किमुताचरितुं, अक्षमाः असमर्थाः । एतादृशाममीषां ब्राह्मणानां पुनः अग्निहोत्रनियमः क्व ? इष्टेः दर्श-पूर्णमासादियागरूपायाः अनुष्ठानधीः अनुष्ठानज्ञानं क ? तथा पशुभिः सहिताः सपशुकाः पशुवधयुक्ता इति भावः । अभि २ ' यः खल्वाचमनाप्लवादिनियमस्तं'. ३ 'अनुष्ठानगी:'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy