SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २७ ] पदार्थचन्द्रिकाटीकासहिता । १९३ वि०-तदेतद्दयापयोनिधेरस्य भूषणमेव न तु दूषणम् ॥ १५० ॥ तत्ताडगुत्तमपदे तमसः परस्तादस्तामयैरतुलसूरिभिरर्चतोऽपि ॥ अत्राविरस्ति हरिरेष चिरंनराणांदृष्टिंकृतार्थयितुमेव दृढानुकम्पः३५० अथ क्षीरनदीवर्णनम् २७. इति दक्षिणतो विमानं प्रस्थापयन् सहर्षम्इयं हि गङ्गा-सिन्धु-सरखती-भवहरातुङ्गा-पतङ्गात्मजा__रङ्गाभ्याशतरङ्गिणीदधतत्यङ्गारभङ्गावहा ।। शुग्धाराशमनी मनीषिजनतारब्धावगाहा मुहु र्मुग्धानामपि शुद्धबुद्धिजननी दुग्धापगा दृश्यते ॥ ३५१ ।। तदेतदिति । तदेतत्त्वया वर्णितं दयापयोनिधेर्दयासागरस्यास्य विजयराघवस्य भूषणमेव न तु दूषणम् ॥ १५० ॥ तदिति । तमसः अज्ञानस्य परस्तात् परस्मिन् “दिक्छब्देभ्यः सप्तमी-पञ्चमी-प्रथमाभ्यः-" इत्यादिसूत्रेण सप्तम्यर्थेऽस्तातिप्रत्ययः । तत्तादशि तथाविधप्रसिद्धे उत्तमपदे वैकुण्ठे अस्तामयैर्दोषरहितैः अत एव अतुलसूरिभिः अनन्यसदृशैः विद्वद्भिः सनक-नारदप्रभृतिभिः अर्चितः पूजितोऽपि सन् , दृढानुकम्पः सततभक्तप्रेमवान् , एषः हरिविजयराघवरूपः, अत्र गृध्रसरसि चिरं बहुकालं आविरस्ति प्रकटो वर्तते इति यत् , तत् नराणां मनुष्याणां दृष्टिं नेत्रं, जातावेकवचनम् । सफलयितुं खदर्शनेन सफलीकर्तुमेव ॥ ३५० ॥ __ अथ क्षीरनदीवर्णनार्थमुपक्रमते-गङ्गेति । गङ्गासिन्धुर्गङ्गा नदी अथवा सिन्धुनानी अन्या नदी, सरस्वती, भवहरा संसारनाशिनी तुङ्गा, पतङ्गस्य सूर्यस्य । “पतौ पक्षि-सूर्यो च" इत्यमरः । आत्मजा यमुना "कालिन्दी सूर्यतनया यमुना” इति चामरः । रङ्गाभ्याशे रङ्गनाथक्षेत्रसमीपे या तरङ्गिणी नदी कावेरी च ता इव तद्वत् । अधानां पापानां ततिः परम्परैव अङ्गाराः दाहकत्वात् उल्मुकानि "अङ्गारोऽलातमुल्मुकम्” इत्यमरः । तेषां भङ्गावहा नाशसंपादयित्री, तथा शुचां दुःखानां धारायाः पतेः शमनी विनाशयित्री मुहुर्वारंवारं मनीषिजनतया विद्वत्समूहेन आरब्धाः उपक्रान्ताः अवगाहाः स्नानानि यस्यां सा तथाभूता, मुग्धानां मूर्खाणामपि “मुग्धः १ एतत् कचिन्नास्ति'. २ 'अस्तामयेऽप्य'. ३ 'आविरास'. ४ 'वदघहा गम्भीरभङ्गा'. ५ शुद्धि'.. १७ For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy