SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ विश्वगुणादर्शचम्पू:- श्रीमदेकानेश्वरतथाहिदैत्येभ्यो न वरान् स दास्यति यदि त्र्यक्षो मुहुस्तर्हि ते नाशक्ष्यन्भुवनानि पेष्टुमुदयं नाप्स्यद्दया शार्जिणः ॥ नोदायिष्यत मानुषादिषु हरि! सेतु-गीतादिकम् प्रारप्स्यद्भगवान् भवार्णवममी नालयिष्यन्नराः ॥ ३३४ ॥ किंच पम्पातरङ्गशिशिरानिलडिम्भजात__कम्पाम्रनिष्पतितपुष्परसाभिषिक्तः ॥ संपादयत्यतुलसंपदमर्थिनोऽनु कम्पासुधाम्बुधिरयं पतिरम्बिकायाः ॥ ३३५ ॥ पुनर्निरीक्ष्य सश्लाघम् अल्पोऽपि काच्यामावासादासादयति गौरवम् ॥ यत एतत्पुरःस्थाणुगिरीश इति गीयते ॥ ३३६ ॥ दैत्येभ्य इति । सः त्रीणि अक्षीणि नेत्राणि यस्य सः शिवः दैत्येभ्यः वरान् यदि न दास्यति, तर्हि ते दैत्याः मुहुर्वारंवारं भुवनानि त्रीन् लोकान् पेष्टुं चूर्णयितुं नाशक्ष्यन् समर्था नाभविष्यन्, ततश्च शाङ्गिणो विष्णोः दया उदयमुत्पत्तिं नाप्स्यत् न प्राप्स्यत् । ततोऽपि मानुषादिषु आदिशब्देन मत्स्य-वराहादीनां ग्रहणम् । हरिः श्रीविष्णुः नोदायिष्यत न प्रकटोऽभविष्यत्, ततः भगवान् सेतुः रामावतारे लङ्कागमनसमये समुद्रे रचितः, गीता कृष्णावतारे भक्तमर्जुनं प्रति कथिता भगवद्गीता च ते आदी यस्य तत् सेतुगीतादिकं, नो प्रारप्स्यत् नारचयिष्यत् । भवतु नाम तथा, का वा हानिरित्याशङ्कायामाह-अमी नरा मनुष्याः भवार्णवं संसारसमुद्रं नालयिष्यन् । अत्र “लिङिमित्ते लड्-" इत्यादिसूत्रेण शकआप्ल-उदाङ्पूर्वाय. प्राङ्पूर्वरभ-लघिधातुभ्यः क्रियातिपत्तौ लङ् । तत्रायतेरात्मनेपदम् । ददातेस्तु लडे. व । क्वचित् तत्र 'वरानदास्यत' इत्यपि पाठान्तरं दृश्यते ॥ ३३४ ॥ पम्पेति । पम्पा नाम श्रीमदेकानेश्वरसमीपस्थं सरः तस्य तर लहरीभिः शिशिराः शीतला ये अनिलस्य वायोः डिम्भाः शिशवः मन्दवायव इत्यर्थः । तैः जातः कम्पो येषां ते ये आम्रा रसालवृक्षाः तेभ्यः निष्पतितः निर्गलितो यः पुष्परसो मकरन्दः तेन अभिषिक्तः, अनुकम्पा दया एव सुधा अमृतं तस्याः अम्बुधिः समुद्रः अपरिमितदयावानित्यर्थः । अयमम्बिकायाः पतिः श्रीमदेकानेश्वरः अर्थिनः याचकजनसमूहस्य अतुलां संपदं संपादयति ॥ ३३५ ॥ अल्पोऽपीति । अल्पोऽपि पदार्थः काभ्यां नगर्यामावासाद्वसतेहेतोः गौरवं मह१ 'अदास्यत यदि'. २ 'भुवनस्य'. ३ 'प्रामन्स्यत्'. ४ 'कम्पा'. ५ पुरी'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy