SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ . विश्वगुणादर्शचम्पू:- [श्रीमदेकानेश्वरतथाहि[सौवर्णभूधरमपि खकरे निधाय भिक्षां कपालभृदिहाटति कृत्तिवासाः ॥ . आस्तामिदं वयमसौ परिगृह्य लुब्धो लक्ष्मीपतिं तमपि मार्गणयांचकार ॥ ३२५॥ सूक्ष्मसितांशुकलाभेऽप्यपटो हैमधरपदनिविष्टोऽपि ॥ लुब्धोऽयमयोहस्तस्तण्डुलसत्त्वेऽप्यटत्यहो भिक्षाम् ॥ ३२६ ॥] अत्यल्पमिदमुच्यते । यच्छङ्करसङ्गाद्गङ्गायामपि जीवनदायिन्यां संक्रान्ता तद्गता लुब्धता ॥ १३५॥ पश्यमुक्ताश्रिता विष्णुपदोदितापि गाङ्गेयमुत्पाद्य वसुप्रकृष्टम् ॥ प्राप्यापि रत्नाकरनित्यसङ्ग कपर्दिकाशां न जहाति गङ्गा ॥ ३२७ ॥ लुब्धत्वमेवोपपादयति-सौवर्णेति । असौ शिवः सौवर्णभूधर मेरुमपि खकरे निधाय खायत्तीकृत्वा । वस्तुतस्त्रिपुरासुरवधे धनूरूपेणोपादाय इह लोके कृत्तिवासाः च. मवसनः, कपालभृत् नरकपालधारकश्च सन् , भिक्षां भिक्षार्थमित्यर्थः । अटति परिभ्रमति । इदं वयं भिक्षापरिभ्रमणं आस्ताम्, परं च असौ लक्ष्मीपतिं श्रीविष्णुमपि खयं परिगृह्य वीकृत्य लुब्धः अधिकधनाभिलाषयुक्तः, तमपि विष्णुमपि मार्गणयांचकार मा. र्गणं याचकं वस्तुतःशरं कृतवान्।मार्गणशब्दात् “तत्करोति-" इति णिच् । प्रक्षिप्तमिदं पद्यमिति प्रतिभाति । बहुषु पुस्तकेष्वनुपलम्भात् ॥ ३२५ ॥ सूक्ष्मेति । अयं शिवः लुब्धः आदिकिरातश्च सन् , सूक्ष्मस्य सितस्य शुभ्रस्य च अंशुकस्य वस्त्रस्य लाभे सत्यपि, पक्षे सूक्ष्माः सिताः शुभ्राश्च अंशवः किरणा यस्य स सूक्ष्मसितांशुकश्चन्द्रः “शेषाद्विभाषा" इति कप्प्रत्ययः । तस्य लाभे सत्यपीति च। अपटः वस्त्ररहितः दिगम्बरश्च सन् , हैमधरे सौवर्णधारके पदे स्थाने पक्षे हिममेव हैमं तस्य धारके हिमालये च निविष्टः स्थितोऽपि सन् अयो लोहमयपात्रं शूलं च हस्ते यस्य सः तथाभूतः, तथा तण्डुलानां सत्त्वं अस्तित्वं, तण्डुर्नृत्याचार्यः लक्षणया तत्प्रोक्तं शास्त्रं नृत्यं वा तेन लसताति तस्य भावस्तत्त्वं च तस्मिन् सत्यपि अहो इत्याश्चर्ये । भिक्षां अटति भिक्षार्थे परिभ्रमति ॥ ३२६ ॥ अतीति । किंच इदं वक्ष्यमाणं अत्यल्पं अतिसूक्ष्मं गुह्यमित्यर्थः । उच्यते । यत् शंकरस्य सङ्गात् संबन्धात् जीवनं जलं प्राणनं च ददाति तच्छीलायां, नान्तत्वान्डीपू । सत्यामपि गङ्गायां तद्गता शिवगतालुब्धता संक्रान्ता मिलिता ॥ १३५॥ लुब्धतामेवोपपादयति-मुक्ताश्रितेति । इयं गङ्गा मुक्तेः अर्थात् संसारात्, मुक्ताभिमौक्तिकैश्च आश्रितापि, विष्णोर्भगवतः पदात् आकाशाच्च “वियद्विष्णुपदं वा १ इदं पधं नोपलभ्यते आदर्शपुस्तके, अन्येषु पुस्तकेषु च । केवलं मुद्रितैकस्मिन्नत्रत्यपुस्तके दृश्यते. २ 'लाभो'. ३ 'अन्यदल्प'. ४ पदादुदीता'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy