________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २२ ] पदार्थचन्द्रिकाटीकासहिता ।
वेदान्तार्यगिरः प्रसूनमृदवो मोदं दधानाः सताम् प्रौढग्रावकठोर काण्यपि परं भिन्दन्ति हृन्दि द्विषाम् ॥
नन्दाद्यार्यजनाभिनन्दितमृदुस्पर्शोऽपि पादो हरे
दुर्भेदे शकटासुरे तु शतकोट्याकारमागान्न किम् ? ॥ २९९॥
पुनः सप्रार्थनमञ्जलिं बद्धादर्पाविष्टकुदृष्टिदुष्टसमयोत्सादाय बोधाङ्कुरो -
--
दाय प्रबले कलावपि जयोत्पादाय वेदाध्वनः ॥
१६९
श्रीमल्लक्ष्मणपक्षरक्षकबुधामोदाय पापाटवी - च्छेदायार्थिमरुत्तरुर्विर्जयतां वेदान्तविद्यागुरुः ॥ ३०० ॥
अथ समाधातुमुपक्रमते विश्वावसुः - वेदान्तेत्यादिना । प्रसूनमृदवः पुष्पवत् सुकुमाराः अत एव सतां तन्मतस्थसाधूनां मोदं आनन्दं दधाना उत्पादयन्तः वेदान्तार्यस्य गिरः व्याख्यानरूपा वाण्यः, द्विषां मतान्तरस्थवादिनां हन्दि हृदयानि “पद्दन्नोमास्–” इत्यादिना हृदयशब्दस्य हृदादेशः । प्रौढाः कठोराः ग्रावाणः पाषाणा इव कठोरकाणि कठिनान्यपि, परमत्यन्तं भिन्दन्ति विदारयन्त्येव । अत्र दृष्टान्तमाह - नन्दो गोकुलाधिपः श्रीहरेः पिता आदिः प्रमुखो येषां सुनन्दादीनां ते ये आर्यजनाः श्रीकृष्णभक्तत्वात् श्रेष्ठजनास्तैरभिनन्दितः मृदुस्पर्शः कोमलस्पर्शो यस्य तादृशोऽपि हरेः श्रीकृष्णस्य पादः दुर्भेदे इतरैर्भेत्तुमशक्ये शकटासुरे, शतकोटेर्वज्रस्य “शतकोटिः खरुः शम्बो दम्भोलिरशनिर्द्वयोः" इत्यमरः । आकारं न अगात् न प्राप किम् ? तद्वदेवेदमिति भावः ॥ २९९ ॥
1
इदानीमेतत्प्रकरणमुपसंहन् प्रार्थयते -दर्पाविष्टेति । दर्पाविष्टानां गर्विष्ठानां अत एव कुदृष्टीनां कुत्सितज्ञानानां अत्र दृशिर्ज्ञाने । दुष्टो यः समयः सिद्धान्तः “समयाः शपथाचार - कालसिद्धान्त - संविदः ।" इत्यमरः । तस्य उत्सादाय तं विनाशयितुमित्यर्थः । “तुमर्थात् - इत्यादिना चतुर्थी । अग्रेऽप्येवमेव ज्ञेयम् । बोधाङ्कुरस्य उद्भेदाय उत्पादनाय, प्रबलेऽपि कलौ युगे वेदाध्वनः कर्म- ज्ञानरूपवेदमार्गस्य जयोत्पादाय सर्वोत्कर्षमुत्पादयितुमित्यर्थः । श्रीमतो लक्ष्मणस्य रामानुजाचार्यस्य यः पक्षः विशिष्टाद्वैतरूपः तद्रक्षकास्तत्पालका ये बुधाः पण्डितास्तेषां मोदाय आनन्दमुत्पादयितुमित्यर्थः । पापान्येवाटवी अरण्यं तस्याश्छेदाय, तां छेत्तुं चेत्यर्थः । अर्थिनां विशिष्टाद्वैतज्ञानाभिलाषिणां मरुत्तरुः कल्पवृक्षः वेदान्तविद्यागुरुः, विजयतां सर्वोत्कर्षेण वर्तताम् ॥ ३०० ॥
१ 'कोपाविष्ट '. २ 'भेदाङ्कुरोद्बोधाय' ३ 'महा'. ४ 'विजयते'.
•
१५
For Private And Personal Use Only