SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ . विश्वगुणादर्शचम्पू: [काञ्ची कृपाशिशिरलोचनं कृतभवव्यथामोचनम् वपासुरभिलाधरं वरदनाम धाम स्थिरम् ॥ २६९ ॥ कृशानुमामन्त्र्य वरदं भो भज सततं शरदम्भोरुह विलोचनं देवम् ॥ परदम्भोपहतिकरं हर-दम्भोलिधर-मुखमखाशनुतम् ॥ २७० ॥ पुनः सानुस्मरणरोमाञ्चम् तापत्रयप्रशमनादमृतं ग्रहीतुम् तामेव वैधहयमेधवपामुपासे ॥ अम्भोधिजाधरसुधारसवासितेन या चुम्बिता वरदराजमुखाम्बुजेन ॥ २७१ ॥ उपाश्रितं, त्रिदशपादपः कल्पवृक्षः स्वर्गवी कामधेनुश्च तयोः त्रपाकरं लज्जोत्पादकं, भक्केष्टप्रदानेनेति भावः । दिशां अधिपाः इन्द्रादयो लोकपालास्तान् अवति दैत्यादिदुष्टजनविनाशनेन रक्षतीति तथाभूतं, स्वतः पावनं पवित्ररूपं, कृपया दयया शिशिरे शीते लोचने यस्य तथाभूतं, कृतं भवव्यथायाः संसारपीडायाः मोचनं मुक्तिर्येन तं, वपया ब्रह्मकृताश्वमेधीयया सुरभिल: सुगन्धयुक्तः अधरः अधरोष्टो यस्य सः तं, सुरभिलेति प्रामादिकोऽयं प्रयोगः । इलच्प्रत्ययविधायके तुन्दादिगणे सुरभिशब्दस्य पाठाभावात् । नाप्ययमाकृतिगणः । तस्मात् 'वपासुरभिताननं' इति पाठान्तरं पुस्तकान्तरे दृश्यते, तदेव युक्ततरमिति ज्ञेयम् । तत्र तारकादित्वादितच्प्रत्यये सुरभितेति प्रयोगस्य सुसाध्यत्वात् । तत् वरदनाम स्थिरं धाम वैष्णवं तेजः वयं उपास्महे भजामहे ॥ २६९ ॥ कृशानुं संबोध्याह-वरदमिति । भो कृशानो, शरदि शरहतौ ये अम्भोरुहे कमले ते इव विलोचने नेत्रे यस्य तं परेषां शत्रणां दम्भस्य गर्वस्य उपहतिकरं नाशकरं, हरः शिवश्च दम्भोलिधरः वज्रधर इन्द्रश्च तौ मुखे अग्रे येषां तैर्मखाशैर्यइमुग्भिः देवैः नुतं स्तुतं, देवं वरदं सततं निरन्तरं भज उपास्ख । मैनं दोषदृष्ट्या द्राक्षीरिति भावः ॥ २७० ॥ तापत्रयेति । तापानां आध्यात्मिकाधिभौतिकाधिदैविकात्मकानां त्रयस्य प्रशमनात् नाशं प्राप्येत्यर्थः । ल्यब्लोपे पञ्चमी । अमृतं जन्म-मरणराहित्यं मोक्षमिति यावत् । ग्रहीतुं स्वीकb, तां प्रसिद्धां विधेब्रह्मणोऽयं वैधः स चासौ हयमेधोऽश्वमेधयज्ञः तत्संबन्धिनी वपामेव उपासे सेवे। तस्याः सेवनार्हत्वमुपपादयति-अम्भोधिजेति । या वपा अम्भोधिजाया लक्ष्म्याः अधर एव सुधारसोऽमृतरसस्तेन वासितेन सुगन्धयुक्तेन वरदराजस्य भगवतो मुखाम्बुजेन मुखकमलेन चुम्बिता आस्वादिता। अतस्तामेवोपासे इति ॥ २७१॥ १वपासुरभिताननं.' For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy