SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २०] पदार्थचन्द्रिकाटीकासहिता। सविनयमञ्जलिं बद्धाशिष्यार्पितेन शुचिना द्रविणेन तुष्टाः शिष्टा मुकुन्दशरणागतिधर्मनिष्ठाः ॥ सत्संप्रदायनियमप्रयताः सदा ये तेभ्यो नमांसि करवै वरवैष्णवेभ्यः ॥ २५९ ॥ अथ चन्नपट्टण(मद्रास)वर्णनम् २०. इति विमानमन्यतः प्रस्थापयन्नग्रतो दृष्ट्वा-- एषा कैरविणी विशल्यकरणी दोषाशुगार्तात्मना मेतद्रोधसि पार्थसारथिरिति ख्यातः समिन्धे हरिः ॥ यत्पादाम्बुजचुम्बिनां सुरपतेः कोटीरगारुत्मत स्तोमानां तुलसीदलप्रकरतो नो वेद भेदं जनः ॥ २६० ॥ अन्यैः सर्वसल्लक्षणैः संपन्नमपि न खीकरोति । एतत् 'अमलमतिषु लोके जागरूकेषु-' इत्यायुक्तदूषणोद्धारमात्रपरमिति ज्ञेयम् ॥ २५८ ॥ एवं सर्वाणि दूषणानि परिहृत्य सर्वथा एते वन्द्या एवेति सूचयन्नाह-शिष्यार्पितेनेति । ये शिष्यैः अर्पितेन दत्तेन शुचिना न्यायसंपादितेन स्वल्पेनापीति शेषः । द्रविणेन धनेन तुष्टाः, मुकुन्दस्य विष्णोः शरणागतिः शरणप्रपत्तिरेव धर्मस्वस्मिन्निष्ठा आसक्तिर्येषां ते तथाभूताः, सदा निरन्तरं सतां संप्रदाये ये नियमाः संध्या-पूजादयः तैः प्रयताः पवित्राः “पवित्रः प्रयतः पूतः” इत्यमरः । अत एव शिष्टाः, तेभ्यः वरवैष्णवेभ्यः श्रेष्ठवैष्णवेभ्यः नमांसि नमस्कारान् करवै कुर्याम् । 'नमस्' इति सान्तोऽयं शब्दः ॥ २५९ ॥ अथ चन्नपट्टणवर्णनं सूचयन्नाह कविः-इतीत्यादि। एषेति । एषा कैरविणी सरसी, अत्र विराजते इति शेषः । कथंभूता सा । दोषाः पापान्येव आशुगा बाणास्तैः आर्तः आत्मा अन्तःकरणं येषां तेषां, संसारदोषखिन्नचित्तानामिति यावत् । विशल्यकरणी शरीरनिर्विष्टबाणाग्रनिस्सारिणी । एतद्रोधसि अस्याः कैरविण्यास्तीरे, पार्थसारथिः इति नाम्ना ख्यातः प्रसिद्धः हरिः विष्णुः समिन्धे सम्यक् प्रकाशते । कीदृशः सः । यस्य पार्थसारथेः पादाम्बुजं चरणकमलं चुम्बन्ति स्पृशन्ति ते तथाभूतास्तेषां सुरपतेरिन्द्रस्य कोटीरगारुत्मतस्तोमानां किरीटस्थमरकतमणिसमूहानां तुलसीदलानां तुलसीपत्राणां प्रकरः समूहः तस्मात् भेदं भिन्नत्वं जनः नो वेद नैव जानाति । वर्णसाम्यात् मरकतमणीनपि तुलसीपत्राण्यवगच्छतीत्यर्थः ॥ २६० ॥ For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy