SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १९ ] पदार्थचन्द्रिकाटीकासहिता । वि० - मन्दमनीष मेहतः पुरुषानेवं मा दूदुषः ॥ १०३॥ भवजलधिनिमज्जत्सज्जनोज्जीवनार्थम् जगति महति वंशे जातवन्तो महान्तः ॥ प्रपदनधनतुष्टाः पञ्चसंस्कारदानात् कति न कृतिन एते ज्ञानहीनान् पुनन्ति ।। २५५ ॥ किं चआचार्याः पुरुषा महत्तरकुलेप्वब्जाक्षदास्योज्ज्वला नाव: संसृतिवारिधेः परममी नावातरिष्यन्यदि || १४७ पृथिव्यां उत्सुकं विद्याग्रहणे उत्कण्ठितं, बहुभिः संवत्सरैः वर्षैः न तु द्वित्र-दिवसैः, शुश्रूषाभि: सेवाभिः शिष्यजनं सम्यक् परीक्ष्य "नापरिज्ञातकुल- शीलरूपाय नासंवत्सररात्रोषिताय -" इत्यादिश्रुत्युक्त नियम मनुसृत्य शिष्यस्य परीक्षां कृत्वेत्यर्थः । तथाच प्रश्नोपनिषदि पिप्पलादस्य सुकेशादीन् ब्रह्मविद्यार्थमागतान् षट् शिष्यान् प्रति वाक्यम् - " भूय एव तपसा ब्रह्मचर्येण सवत्सरं संवत्स्यथ यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामः सर्व ह वो वक्ष्यामः" इति । छान्दोग्ये च गौतम हारिद्रुमतस्य ऋषेः सत्यभामं प्रति - "किंगोत्रो नु सोम्यासि" इत्यादि । ततः प्रमुदिताः सन्तः उपादिशन् विद्यामध्यापयामासुः इति श्रुतम् । उपनिषदादिषु पुराणेषु चेति शेषः। अधुना सांप्रतं तु एष रामानुजीयाचार्यः अविनतान् उन्मत्तान् इष्टसमर्पणैः तेषामिच्छितवस्त्रादिप्रदानैः भूरितमैः अति बहुभिः अब्दैः, आदरात् आराध्यैव प्रसह्य बलात्कारेण, शिष्यान् श्रमेण बहुप्रयत्नेन लभते संपादयतीत्यर्थः ॥ २५४ ॥ भवेति । भवजलधौ संसारसमुद्रे निमज्जतां सज्जनानां उज्जीवनार्थमुद्धारणार्थ, जगति महति वंशे कुले जातवन्तः उत्पन्नाः, अत एव महान्तः कृतिनः पुण्यवन्तश्च एते आचार्य पुरुषाः, प्रपदनं शरणगमनमेव धनं तेन तुष्टाः सन्तः, ज्ञानहीनान् वेद-शास्त्रज्ञानशून्यान् आत्मानात्मविवेक र हितान् वा, पञ्चसंस्काराणां दानात् अर्पणात्, पञ्चसंस्काराश्च - " तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः” इति प्रसिद्धाः । कति कियन्तो वा न पुनन्ति पवित्रयन्ति ? । अत्र 'सज्जनोज्जीवनार्थ' इत्युक्त्या, चोराणां मध्ये च प्रायशः सज्जनानां दौर्लभ्याच 'हत्वा मार्गे -' इत्यादेः सम्यक्तया नैव दूषणोद्धारः । अत एव ग्रन्थकर्तुः पक्षपातित्वं रामानुजीये मते इत्युक्तं प्रागस्माभिः ॥ २५५ ॥ आचार्या इति । अमी रामानुजमतानुसारिणः संसृतिवारिधेः संसारसमुद्रस्य नावः तारकत्वान्नौरूपाः, अब्जाक्षस्य श्रीविष्णोः दास्येन दास्यरूपभक्त्येत्यर्थः । उज्ज्वलास्तेजखिनः आचार्याः आचार्य संज्ञकाः पुरुषाः, महत्तरेषु तत्संप्रदायप्रवर्तकोच्चत १ ' मन्दमते.' २ 'महापुरुषानू'; 'महतः पुंस एवं.' ३ 'कृष्टाः ' For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy