SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १९] पदार्थचन्द्रिकाटीकासहिता। १४१ मजन जनः स्वचरणद्वयसङ्गभाजि गङ्गाझरे निजकलङ्कनिरासहेतोः ॥ पूर्णोपमानमवधेहि निजाझिसङ्गिभक्ताग्रगण्यपदपद्मपयःपिपासोः ॥ ८ ॥ आस्तामिदं वाचनिके वितण्डायमानाः संध्यासु विहितमात्मप्रदक्षिणमप्यधि. क्षिपन्तु । हन्तैतेषामनपायसत्संप्रदायप्रवर्तकः सकलगुरुतिलकलोकगुरुहृदयानुसारी स एष विजयते सौम्योपयातानां देशिकसार्वभौमः ॥ ६ ॥ पुण्यश्लोकः परमभिमतः स्वःस्थलेष्वास्थयासौ यस्य श्लोकप्रथमपठनश्लाघनाकम्पमानैः ॥ चूडासूनैः पयति मधुस्यन्दिभिश्चञ्चरीकै दत्तस्वस्तिप्रवचनमुरो नित्यभूषां स्वयोषाम् ॥९॥ खलकृतपरिभाषाकर्णनोद्यजिगीषाविततनिजमनीषा विस्तृतब्रह्मयोषा ॥ जयति दलितदोषा दत्ततत्त्वाभिलाषा वरवरमुनिवेषा कापि वैकुण्ठभूषा ॥१०॥ आकर्णय तावदेतदीयानां पवित्रतमं चारित्रम् ॥ ७ ॥ श्रत्वात् खपादतीर्थबुद्धया तस्याग्रहणाच खपादोदकस्पर्शनेऽपि न कोऽपि दोष इति भावः ॥ ५॥ मजनिति।खस्य चरणद्वयस्य सङ्गभाजि स्वचरणद्वयसङ्गते गङ्गाझरे भागीरथीप्रवाहे निजकलङ्कस्य स्खीयपापस्य निरासहेतोः दूरीकरणाथै मज्जन स्नानं कुर्वन् जनः, भगवद्भक्तेषु अग्रगण्यानां मान्यानां यत् पदपद्मं पादकमलं तत्सम्बन्धि पयः उदकं तस्य पिपासुः पातुमिच्छुः तस्य प्रपन्नपादतीर्थसेविनः रामानुजीयस्य गङ्गानानकृदयं जनः पूर्णे उपमानं अवधेहि । पूर्णोपमेति तत्समानमिति जानीहि ॥ ८॥ आस्तामिति । वाचनिके शब्दकोट्यां वितण्डायमानाः सम्प्रदायान्तरास्थायिन इति शेषः खपादतीर्थसेवनमधिक्षिपन्ति, तर्हि ते संध्यासु संध्यावन्दनसमयेषु विहितमात्मप्रदक्षिणमपि अधिक्षिपन्तु, तत्तु नाधिक्षिपन्ति । प्रत्युत अहरहराचरन्त्येव । अत उभयत्र साम्यात् स्वपादतीर्थसेवने तदधिक्षेप न कापि हानिरिति भावः । हे सौम्य साधो, उपयातानां शरणागतानां, अनपायः अपायरहितः निर्विघ्न इत्यर्थः । तादृशस्य सतः संप्रदायस्य सन्मार्गस्य प्रवर्तकः प्रवृत्तिकर्ता सकलानां गुरूणां आचार्याणां तिलकः श्रेष्ठः । लोकगुरोः भगवतः श्रीविष्णोः हृदयं अभिप्रायः तं अनुसरति भगवदभिप्रायानुसारिमार्गस्थापका इत्यर्थः। स एष प्रसिद्धः रामानुजः विजयते सर्वोत्कर्षेण वर्तत इति भावः । देशिकानां उपदेशकर्तृणां आचार्याणां सार्वभौमः श्रेष्ठः ॥ ६॥ । तमेव रामानुजं वर्णयति-पुण्येति । पुण्यकारकं श्लोकः यशः यस्य स पुण्यश्लोकः इति परं अत्यर्थ अभिमतः खस्थलेषु वर्गलोकप्रदेशेषु यस्य श्लोकस्य यशसः यत्कृतपद्यस्य च प्रथमपाठने या श्लाघना स्तुतिः तया कम्पमानैः चञ्चलैः मधुस्यन्दिभिः मकरन्दभिः चूडासूनैः वेणीकुसुमैः चञ्चरीकैः भ्रमरैः दत्तखस्तिप्रवचनं दत्तवस्त्युत्तरं दत्तशान्तिकमिति यावत् । नित्यभूषां अयातयामकुसुमधारिणी स्वयोषां स्नपयति ॥९॥ खलेति । खलैः दुर्जनैः कृतायाः परिभाषायाः निन्दायाः आकर्णनेन उद्यन्ती जिगीषा जेतुमिच्छा तया वितता विस्तृता निजमनीषा खेच्छा तया विस्तृता प्रप For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy