SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ विश्वगुणादर्शचम्पू:- [श्रीरामानुज संत्यज्याप्यवधानतः प्रभुतमं स्वाराधनस्तोषय न्त्येषां सच्चरितं यशांसि भजतां सूते पुनीते जगत् ॥ १ ॥ सर्वाभ्यर्हितवैष्णवाङिपयसां पानेन पूतात्मभि बह्वायासनिषेव्यपावनजटा गङ्गापि नाङ्गीकृता ॥ सामीप्येऽपि पयोनिधिः परिहृतः पश्वादिकाम्याद्विधेः सारासारविवेचने समुचिता संदृश्यते चातुरी ॥२॥ हन्त एतेष्वेव सांसिद्धिकामच्युतभक्तिमपेक्ष्य विजयते तद्भक्तभक्तिरनितरसाधारणी ॥ १ ॥ दृष्टे झटित्यखिललोकनिदानभक्ते साष्टाङ्गमत्रपमपाकृतसर्वगर्वम् ॥ अस्पृष्टदेशसमयं प्रणमन्ति तेषां धन्यात्मनां वद किमन्यदुपास्यमस्ति॥३॥ यच्च यतिवन्दनविषयेऽप्यवहितोऽसि तत्राप्याकर्ण्यताम् ॥ २ ॥ ध्ययज्ञ इति" इत्यादिश्रुत्युक्ताः तान् । अथ मान्यान् अन्यानध्वरान् ज्योतिष्टोमादीन् , तत्तद्यज्ञस्थदेवतारूपत्वेन माधवस्य विष्णोः मुखं अग्निः “अग्निमुखा वै देवाः" इति श्रुतेः । तस्य उल्लासः तृप्तिः तामावहन्तीति तानपि एतादृशान् यज्ञान् , संत्यज्य विहाय, अमी अवधानतः सावधानतया प्रभुतमं सर्वेश्वरं विष्णुं खाराधनैः पूजन-भजनादिभिः तोषयन्ति । एतादृशानामेषां हरिं भजतां सत् साधु चरितं आचरितं यशांसि सूते, जगत् पुनीते पवित्रयति च ॥१॥ सर्वेति । सर्वेभ्य इतरेभ्यो जलेभ्यः अभ्यर्हितानां सन्निधानां सुखलभ्यानां पूज्यानां वा वैष्णवाभिपयसां वैष्णवपादोदकानां पानेन पूतः आत्मा शरीरं येषां तैः एभिः, बह्वायासेन निषेव्या पावना जटा मूलं उगमश्च यस्याः । “मूले लग्नकचे जटा" इत्यमरः । तुषारपिहितात्युचहिमाचलनिर्गतत्वात् अतिदूरत्वाद्वा बह्वायासनिषेव्यत्वम् । गङ्गापि नाङ्गीकृता पावित्र्याथै न स्वीकृता । अनायासलभ्यवैष्णव. पादतीर्थेनैव पावित्र्यलाभात् । तीरोपान्तनिवासित्वात् सामीप्येऽपि पयोनिधिः समुद्रः स्नानादिषु परिहृतः । पशुबन्धादिकाम्यकर्मविधेः सारासारविवेचने कर्तव्याकर्तव्यविवेके समुचिता चातुरी नैपुण्यं दृश्यते । एषामिति शेषः ॥ २॥ हन्तेति । सांसिद्धिको जन्मान्तरसुकृतलब्धां अच्युतस्य भगवतो भक्तिमपेक्ष्य, तद्भक्तानां वैष्णवानां भक्तिः, अनितरसाधारणी असदृशी विजयते सर्वोत्कर्षण वर्तते । भगवतोऽप्यधिकं तद्भक्कानेवामी भजन्तीति भावः । हन्तेति हर्षे ॥ १॥ कथमित्याकाङ्क्षायामाह-दृष्टे इति । अखिललोकस्य विश्वस्य निदानं आदिका. रणं "निदानं त्वादिकारणम्" इत्यमरः । भगवान् विष्णुः तस्य भक्त दृष्टे सति, साष्टाङ्गं "उरसा शिरसा दृष्ट्या मनसा वचसा तथा । पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग उच्यते ॥" इत्युक्तलक्षणं अत्रपं लज्जारहितं अपाकृतः दूरीकृतः सर्वोऽपि गर्वः यस्मिन्नेतादृशं च यथा स्यात्तथा प्रणमन्ति नमस्कुर्वन्ति । एतादृशानां तेषां भगवद्भक्तादन्यत् किं उपास्यमस्ति ? न किमपीत्यर्थः ॥ ३ ॥ यञ्चेति । अवहितोऽसि बद्धकटाक्षोऽसि ॥ २॥ For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy