SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १९ ] प५. यंचन्द्रिकाटीकासहिता । दोषारोपणं चैतेषु त्वदीयमपहास्यम् ॥ ९५ ॥ तथाहिइष्टात्खबान्धवजनादितरैरदृष्टम् यद्भुञ्जतेऽन्नमिह लक्ष्मणपक्षनिष्ठाः ॥ दोषः किमेष दुरितापहरो गुणो वे त्येवं विविच्य परिपृच्छ गुणागुणज्ञान् ॥ २४१ ॥ किंच दृष्टं बन्ध्वतरैः सतामनदतां दोषो य एषोऽपरैः शिष्टैः स्पृष्टमनश्नतामिह महाराष्ट्रादिकानां समः ॥ एषां दूषयिता न कोऽपि नियताहारः परंतु द्विजः सर्वाशी नतु दूषणं हितभुजां तेषामिदं भूषणम् ॥ २४२ ॥ यश्च शठारिप्रभृतिसत्त्वस्थमुनिविनिर्मितदिव्यप्रबन्धाध्ययने दोष उद्घाटितः सोऽयमितिहास-पुराणादिभिर्वेदमुपबृंहयद्भ्यः सङ्ख्यो न रोचते । श्रृणु तावत् ॥ ९६ ॥ दीप्तं शङ्खस्य रथाङ्गस्य चक्रस्य च चिह्नम्, वक्त्रे शौरिगुणैकवर्णनपराः श्रीकृष्णगुणवर्णनासक्ताः वाचः । सर्वत्र यथायोग्य मस्तीत्यादिवचनानुसारेण क्रियापदं योज्यम् । तत्तस्मात् हरिभक्तितुन्दिलहृदां श्रीकृष्णभक्त्या पूर्णमानसानां अत एव एनोमुचां निष्पापानामेतेषां वीक्षा दर्शनमपि मोक्षावहा भवति ॥ २४० ॥ १३५ दोषेति । अपहसितुं योग्यं अपहास्यम् । परिहासास्पदमित्यर्थः ॥ ९५ ॥ इष्टादिति । इह लक्ष्मणपक्षे रामानुजमते निष्ठाः स्थिताः इष्टात् स्वमतस्थात् स्वबान्धवजनात्, इतरैः मतान्तरस्यैः अबान्धवैरदृष्टमन्नं भुञ्जत इति यत्, एष उक्तविधान्नभोजनरूपः, दोष: ? किं वा दुरितं पापं अपहरति विनाशयतीति दुरितापहरो गुणः ? इति उक्तप्रकारं विविच्य आलोक्य गुणानगुणान् दोषांश्च जानन्तीति तज्ज्ञान् परिपृच्छ विचारय ॥ २४१ ॥ १ 'मितभुजां . ' अथ 'विदुषां मतान्तरजुषां पङ्कौ न भुङ्क्ते' - इत्यादि दूषणमुद्धारयन्नाह - दृष्टमिति । बन्ध्वितरैर्दृष्टं अन्नं अनदतां अभक्षयतां सतां य एष दोषः कथितः, स एष दोषः अपरैः शिष्टैः स्पृष्टं अनश्नतां अभक्षयतां महाराष्ट्रादिकानां महाराष्ट्रादीतर देशवासिनामपि समः तुल्यः । नियताहारः मितभोजनः कोऽपि द्विजः एषां रामानुजीयानां दूषयिता दूषकः न भवति । परंतु किंतु सर्वत्राश्नातीति सर्वाशी द्विजः दूषयिता स्यात् । इदं अनियमभोजनकृतदूषणं तु हितभुजां शरीरसुखकर भोजिनां तेषां भूषणमेव न तु दूषणमिति योज्यम् ॥ २४२ ॥ भाषाप्रबन्धाध्ययनरूपं दोषं निराकर्तुमाह-यश्चेति २ ' प्रमुखसत्त्वस्थमुनि ' ३ 'उद्भावित : '. For Private And Personal Use Only शठारिः एतन्नामा ४ 'विद्वद्भयः'.
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy