SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १९] पदार्थचन्द्रिकाटीकासहिता । १३३ वेदानामवहेलनं व्यतिहता वर्णाश्रमप्रक्रिया गोष्ठ्यै दुष्कलिपुष्कलीकृतपुषे कस्यैचिदस्यै नमः ॥ २३५॥ किं बहुना प्रायो येषां सकृदकरणे प्रत्यवायोऽस्ति भूयान् __यज्ञादीस्तानिह विजहति स्पष्टवेदोपदिष्टान् ॥ कर्मैवामी विदधति जडाः किंतु संकेतसिद्धं __ कष्टं कष्टं बत हतकलेः कश्चिदुन्मेष एषः ॥ २३६ ॥ किं चन गाहन्ते गङ्गामपि नैटजटासार इति ये न मज्जन्त्यम्भोधौ लवणरसवेशन्तक इति ॥ न पञ्चैवं गव्यानपि पशुशकृत्सार इति हा पिबन्त्येषां दोषान्क इह निपुणः स्याद्गणयितुम् ॥ २३७ ॥ - विश्वावसुः-किमरे कलङ्कलेशरहितेषु श्रीमद्रामानुजदर्शनैकनिष्ठेषु भवति । वर्णानामाश्रमाणां च प्रक्रिया आचारः व्यतिहता ध्वस्ता। दुष्टस्य कले: पापस्य पुष्कलीकृतं वर्धनं पुष्णातीति तत्पुषे कस्यैचिदस्यै गोष्ठयै तेङ्गलीयायै नमः । सर्वथा त्याज्या गोष्टीयमित्यर्थः ॥ २३५॥ प्राय इति । येषां यज्ञादीनां सकृत् एकदाप्यकरणे अननुष्ठाने सति, भूयान् प्रत्यवायः पापं अस्ति भवति, तान् स्पष्टं वेदैरुपदिष्टान् चोदितान् यज्ञादीन् ब्रह्मयज्ञादिपञ्चसंख्याकान् इह लोके अमी रामानुजीयाः विजहति त्यजन्ति। किंतु अत एव जडाः मूर्खाः संकेतसिद्धमेव कर्म । एवकारेण श्रौत-स्मार्तव्यवच्छेदः। विदधति कुर्वन्ति । कष्टं कष्टम् अन्याय्यमन्याय्यम् । बतेति खेदे । एषः विहितत्याग: अविहितानुष्टानं च हतकलेः सम्बन्धी कश्चिदनिर्वाच्यः उन्मेषः प्रभाव एव ॥ २३६ ॥ नेति । ये तेङ्गलाख्याः गङ्गामपि लोकपावनी नटस्य नर्तकस्य शिवस्य जटानां आसारः वर्षमिति विगयेति शेषः । न गाहन्ते न स्नान्ति । अम्भोधौ समुद्रे, लवणरसः क्षाररसस्तस्य वेशन्तकः पल्वलमिति "वेशन्तः पल्वलं चाल्पसरः” इत्यमरः। न मज्जन्ति न स्नान्ति । एवं पञ्चगव्यान्यपि पशोः शकृत्सारः पूरीषभाग इति न पिबन्ति । एवं सति एषां दोषान् गणयितुं संख्यातुं इह कः निपुणः स्यात् ? न कोऽपीत्यर्थः, हेति खेदे ॥ २३७ ॥ किमिति । कलङ्कस्य दोषस्य लेशेन यत्किंचिदंशेनापि रहितेषु श्रीमतो रामानु १ 'वेदानामपि हेलनं.' २ 'कृतिपुषे.' ३ हर.' १२ For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy