SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १९ ] पदार्थचन्द्रिकाटीकासहिता । मुञ्चन्तः पञ्चयज्ञान् द्रविडभणितिभिर्मोहयन्तोऽनभिज्ञान् निन्दन्तो हन्त यज्ञानसकृदपि हरेर्वन्दनं वारयन्तः ॥ लुम्पन्तः श्राद्धचर्या यतिमपि गृहिणां वन्दनं कारयन्तः सद्वेषं धारयन्तः कतिचिदविहितैरेव कालं क्षिपन्ति ॥ २३१ ॥ किंच- घण्टाघोषं त्यजन्तो हरिपरिचरणे सर्वलोकाविगीतम् ख्यातं त्रैलोक्यमातुः श्रुतिभिरभिहितं वैभवं खण्डयन्तः ॥ संकेतश्रद्धयैव खचरणसलिलं खीयगोष्ठयां पिबन्तः केचिद्विप्लावयन्ते जगदभिदधतः केशवं दोषभोग्यम् ॥ २३२ ॥ १३१ मुञ्चन्त इति । पञ्चयज्ञान् ब्रह्मयज्ञ-देवयज्ञ भूतयज्ञ-पितृयज्ञ-मनुष्ययज्ञाख्यान् मुञ्चन्तस्त्यजन्तः, त्यजन्तीत्यर्थः । एवमेव सर्वत्र शत्रन्तस्यार्थो ज्ञेयः । द्रविडभणितिभिः द्रविडभाषावाक्यैः अनभिज्ञान् वेद-शास्त्रादिज्ञानरहितान् मोहयन्तः स्वमतग्रहणे भ्रामयन्तः, हन्तेति खेदे । यज्ञान् अग्निष्टोमादीन् निन्दन्तः काम्या इति मत्वा निन्दां कुर्वन्तः, हरेः श्रीविष्णोरपि वन्दनं असकृत् वारं वारं वारयन्तः निषेधयन्तः, श्राद्धचर्या श्राद्धानुष्ठानं लुम्पन्तः अकुर्वन्तः, यति खसंन्यासिनमपि किमुत इतरं, गृहिणां गृहस्थाश्रमिणां वन्दनं कारयन्तः, सत्सु सत्पुरुषेषु द्वेषं अप्रीतिं धारयन्तः । एवं कतिचित् रामानुजीयाः अविहितैः वेद-शास्त्रनिषिद्धैः कर्मभिरेव कालं क्षिपन्ति नयन्ति ॥ २३१ ॥ , For Private And Personal Use Only किंच पूजादिष्वपि विधिवदनुष्ठानं नैव भवतीयाह - घण्टा घोषमिति । सर्वेषु लोकेषु अविगीतमनिन्दितं प्रशस्तमित्यर्थः । हरिपरिचरणे श्रीविष्णुपूजने घण्टाघोषं देवताह्वानार्थं विहितं घण्टानादं त्यजन्तः, त्रैलोक्यमातुः श्रीलक्ष्म्याः श्रुतिभिः “सा हि श्रीरमृता सताम् ” इत्याद्यनेकाभिः अभिहितमुक्तं ख्यातं प्रसिद्धं वैभवं स्वातन्त्र्यरूपं खण्डयन्तः, लक्ष्मीस्तावद्भगवतो मायेत्युक्त्वा दूषयन्तः, किंच स्वीयानां रामानुजीयानां गोष्ठयां सभायां, संकेते स्वकल्पितविधौ या श्रद्धा विश्वासस्तयैव स्ववरणसलिलं स्वपादोदकं सर्वेषामप्येकीकृत्य पिबन्तः, प्राशयन्तः । एतदेव तेषां मतस्य सर्वस्वम् । केचित् केशवं श्रीविष्णुं दोषभोग्यं नियामकतया कृतानां दोषाणां भोतारं अभिदधतः कथयन्तः सन्तः, जगत् विप्लावयन्ते अधर्मप्रचारेण विनाशप्रवणं कुर्वन्तीत्यर्थः ॥ २३२ ॥ १ 'तैः संक्षिपन्त्येव कालम् .
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy