SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १४ ] पदार्थचन्द्रिकाटीकासहिता। १२९ ___ अत्र कश्चिदपश्चिमो विपश्चितामित्थमेनमनुदिनं प्रणमति ॥ ९० ॥ 'रामानुजाय गुरवे नरवेषभाजे शेषाय धूतकलये कलये प्रणामान् ॥ यो मादृशानपि कृशान् परिपातुकामो भूमाववातरदुदश्चितबोधभूमा'२२७ इति । एतच्चाकर्ण्यताम् रामानुजौ यामुनतीर्थसेवापरावुदीतौ नरकं निरोद्धम् । तयोः पुराणः प्रणिनाय गीतां तस्या नवीनस्तु ततान टीकाम् २२८ कृशानु:--सत्यमेवं तथापि तत्पथानुविधायिनां मेधाविनामपि परावमन्तृत्वादयो दोषाः प्रसिद्धाः ॥ ९१ ॥ तथाहि-- लक्ष्मणमुनेः रामानुजयतेः प्रबन्धाः ग्रन्थाः, लक्ष्मणस्य पूर्वजो रामस्तस्य शराः बाणाः इव, जयन्ति ॥ २२६ ॥ अत्रेति । अत्रास्मिन् देशे कश्चित् विपश्चिता विदुषां मध्ये, अपश्चिमः अत्युत्तमः एनं श्रीरामानुचाजाय, अनुदिनं प्रतिदिनं इत्थं वक्ष्यमाणप्रकारेण, प्रणमति नमः स्करोति ॥ ९० ॥ रामानुजायेति । नरवेषं मनुष्यस्वरूपं भजति आश्रयतीति नरवेषभाक् तस्मै, शेषाय सर्पराजाय, रामानुजाय, धूतः निरस्तः कलिः पापं येन तस्मै, पापरहितायेत्यर्थः । अत एव गुरवे आचार्याय प्रणामान् नमस्कारान् कलये करोमि । यः मादृशान् कृशान् अतिदीनानपि परिपातुकामः रक्षितुमिच्छुः सन् , उदञ्चितः खभावत एवोत्पन्नः बोधभूमा ज्ञानातिरेको यस्य सः, भूमौ अवातरत् प्रकटीबभूव ॥ २२७ ॥ रामेति । यमुनैव यामुनं, स्वार्थेऽण् । यामुनं च तत्तीर्थं च तस्य, पक्षे यामुनतीर्थस्य गुरोश्च सेवापरौ सेवासक्तौ, नरकं एतनामकमसुरं दुर्गतिं च निरोद्धं निवारयितुं, रामस्य बलरामस्य अनुजः कृष्णः, रामानुजाचार्यश्च, रामानुजश्च, रामानुजश्च ती इत्येकशेषसमासः । उदीतौ उत्पन्नौ । दीर्घत्वं छन्दोऽनुरोधात् । तयोः द्वयो रामानुजयोर्मध्ये पुराणः प्रथमः कृष्णः गीतां भगवद्गीतां प्रणिनाय विरचितवान् । नवीनो रामानुजाचार्यस्तु, तस्या गीतायाः टीकां व्याख्यां ततान चकार॥२२८॥ सत्यमिति । सत्यमेवं तथापि तस्य रामानुजाचार्यस्य पन्थानं प्रवृत्ति अनुविदधति अनुसरन्तीत्यनुविधायिनः तेषां बुद्धिमतामपि, परेषां भिन्नमतानुयायिनां अवमन्तृत्वं अपमानः आदिर्येषां मात्सर्यादीनां ते दोषाः प्रसिद्धाः । सन्तीति शेषः ॥ ९१॥ - - १ 'पथानुधाविनाम् For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy