SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० विश्वगुणादर्शचम्पू:यन्त्रालयाधिपतिभिः श्रीमद्भिस्तुकारामजावजी इत्येतैः सादरं संमुद्य प्रकाशीकरणे आश्वासितः। ततश्च मुद्रणकालीनसंशोधनकार्यमप्यस्मिन्नेवापतितम् । तदा चेदं, शाके १७७४ तमे वत्सरे अत्र ज्ञानदर्पणनाम्नि शिलायन्त्रेऽङ्कितमेकं शाके १८१० वत्सरे कर्नाटकनाम्नि यन्त्रालये मुद्रितं भावदर्पणव्याख्यासहितं द्वितीयंएतदन्यानि षट् पुरातनानि पुस्तकानि संगृह्य मुद्रितमिति तदुपोद्धाततो ज्ञायतेतृतीयं चैकं हस्तलिखितमित्येतत्पुस्तकत्रितयं परस्परेण संवाद्य मुद्रितम् । तत्र च प्रायशः प्राचीनपुस्तकस्थानि पाठान्तराण्यातानि। कर्नाटकयन्त्रालये मुद्रितपुस्तकस्थपाठान्तराणि तु टीकाया अधोभागे टिप्पणीरूपेण निवेशितानि । तथाऽस्मिन्नेव पुस्तके मूलेऽस्मत्संपादितप्राचीनपुस्तकाभ्यामनुमानतः २५।२६ श्लोकाः अधिका अवलोकिताः, तत्र ये तावन्मूलेनातीव विसंबद्धा इति प्रतीतास्ते टीकास्थले सूक्ष्माक्षरैनिर्दिष्टाः, तत्र च मया टीकापि पृथङ्न विरचिता, ये तु मूलेन सुसंबद्धत्वेन प्रतीतास्तेषु टीकां विरचय्य ते मूले एवं [] इत्याकारचिह्न निवेशिताः केचित्त्यकाश्चापि, एतच्च तत्र तत्र स्फुटीकृतम्। अन्यच्चैतत् सप्रणामं निवेदयति-टीकाकरणसमये शोधनसमये च कर्नाटकयन्त्रालयमुद्रितपुस्तकस्य महत्साहाय्यं सँलब्धम् । न ह्येतावदेव, किंतु यदि तत्पुस्तकं नालप्स्यत, तदा एतट्टीकारचनादिकार्य निष्पन्नमभविष्यन्न वेति नैव निश्चीयते । किंचैतत्पुस्तके टीकायां यत्र यत्र मुद्रितपुस्तकसंबन्धेनोल्लेखः कृतः तत्र तत्र तदेव ( कर्नाटकयन्त्रालये मुद्रितं) निर्दिष्टमिति ज्ञेयम् । ततश्चास्यां टीकायां प्रमादा भवेयुस्तर्हि ममायं नूतन एव प्रयास इत्याकलय्य 'धावतः स्खलनं न दोषाय' इति न्यायेन सदयहृदयैः कोविदाम्यैः क्षम्याः मह्यं निवेदनीयाश्च । तथा दृष्टिदोषस्य नैसर्गिकलात् क्वचिदवधानाभावाद्वा यदि शोधनेऽपि क्वचित्प्रमादाः स्युस्तर्हि तेऽपि सुधीभिः सदयं सहनीयाः मह्यं कथनीयाश्च । तेन हि द्वितीयावृत्तौ पुनः सावधानतया सर्वेषां यथाभिप्रेतं करिष्यामीत्यभीक्ष्णं सविनयं विज्ञापयति । तथा तत्रभवता 'देवस्थळी' इत्युपाभिधेन पण्डितशंकरसूनुना भालचन्द्रशर्मणा शोधनकाले सुहृत्तया यत् साहाय्यं दत्तं तस्यापि महत उपकारान् नैव विस्मरति मनीषिजनचरणानुवा बालकृष्णशर्मा। For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy