SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १४] पदार्थचन्द्रिकाटीकासहिता । १०७ किंचएकादश्यां कालयो.महाना देषामग्मिलौकिकत्वं यदागात् ॥ तस्मादेषां व्यर्थहिंसानिवृत्त्यै स्यादुत्कृष्टः पिष्टपश्चादरोऽपि ॥ १८२ ।। वि०-किमरे केशवभक्तिप्रकर्षदीप्रानपि विप्रान् दूषयसि ? शुद्धौ किल मध्वसिद्धान्तनिष्ठानामियं हृदयं जैरीहरीति रीतिः॥६९ ।। आबालस्थविरं स्थिरं हरिदिने शुद्धोपवासव्रतम् ॥ निष्प्रत्यूहमहर्निशं विजयते नारायणाराधनम् ॥ श्लाघ्या भागवतेषु भक्तिरमिता श्रद्धा च येषां दृढा शास्त्रे खीयेगुरूदिते न चरितं साध्वेषु माध्वेषु किम्॥१८३।। एकादश्यामिति । किंच एकादश्यां एकादशीदिने कालयोः प्रातः सायमित्युभयोः, सप्तमीयम् । होमहानात्, यतस्तन्मते स्नान-संध्या-विष्ण्वर्चनत्रयातिरिक्तस्य कर्ममात्रस्यैकादश्यां त्यागावश्यकत्वम् । एषां माध्वानां यदा अग्निः गार्हपत्यादिः लौ. किकत्वं आगात् प्राप्तः एककालहोमाकरणे अग्नेलौकिकत्वं श्रुति-स्मृतिविहितम् । तस्मात्कारणादेषां व्यर्थहिंसायाः प्राकृतानौ कृतहविस्त्यागस्य व्यर्थत्वात् निष्फल. पशुहिंसायाः निवृत्त्यै निवारणार्थ पिष्टपशोः आदरोऽङ्गीकारोऽपि उत्कृष्टः स्यात् । एवं च एकादश्यां होमत्यागात् यज्ञसमये च कुत्रापि शास्त्रे अविहितस्य पिष्टपश्वालम्भनस्य च करणात् निन्द्या एवैते इति भावः ॥ १८२ ॥ किमिति । किमरे केशवभक्तर्विष्णुभक्तेः प्रकर्षणाधिक्येन दीप्रान् तेजोयुक्तानपि " नमि-कम्पि-" इत्यादिना रः । विप्रान् दूषयसि ? परंतु मध्वसिद्धान्ते मध्वाचार्यप्रोक्तशास्त्रे निष्टा आसक्तिर्येषां तेषां इयं वक्ष्यमाणा शुद्धा दूषणानहीं रीतिराचारः, हृदयं जरीहरीति वारंवारं भृशं वा हरति । अतिमनोहरेत्यर्थः । 'हृञ् हरणे' इत्यस्माद्यङ्लुकि लटि रूपम् । " यडो वा" इतीडागमः।" ऋतश्च " इत्यभ्यासस्य रीगागमश्च ॥ ६९॥ आबालेति । येषां माध्वानां आबालस्थविरं बालमारभ्य वृद्धपर्यन्तं 'आङ्मर्यादा-" इति समासः । हरिदिने एकादशीदिने स्थिरं शुद्धं उपवासस्य निराहारस्य व्रतं नियमः। विजयते सर्वत्रेदमेव क्रियापदमन्वेतव्यम् । अहर्निशं निष्प्रत्यूहं निर्विघ्नं यथा तथा नारायणस्य विष्णोः आराधनं सेवनं, भागवतेषु भगवद्भक्तेषु च श्लाघ्या स्तुत्या अमिता अतुला भक्तिः, स्वीयगुरुभिः उदिते कथिते शास्त्रे दृढा कदापि विना१ 'शुद्धा हि'. २ 'हृदयरञ्जनी रीतिः'. ३ 'अहर्दिवं'. ४ 'अधिका'. ५ 'सा च'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy