SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा० तस्मादवग्रहादिसाम्यादश्रुतानिश्रितस्य श्रुतनिश्रितेऽन्तर्भाव कृत्वा केवलं श्रुतनिश्रितमेव मतिज्ञानमष्टाविंशतिभेदं व्याख्यातुमुचितम् , न तु परोक्तनीत्या व्यञ्जनावग्रहापगमेन श्रुता-ऽश्रुतनिश्रितमिति । कुतः, इत्याह- 'जम्हा इत्यादि ' यतः “से किं.त सुयनिस्सिय?" इत्येवमोगमे तस्मिन् श्रुतनिश्रिते समासे निष्ठां नीते सति पुनः पश्चात् “से कितं अस्सुयनिस्सियं ?" इत्यादिना ग्रन्थे। नाऽश्रुतनिश्रितं भणितम् । अयमभिप्राय:-श्रुतनिश्रित समेदमप्याभिधाय पश्चादेवाऽश्रुतनिश्रितमुक्तम् । अतः कथं तत्तत्र प्रक्षिप्यते । तस्मात् समयाभिप्रायेण श्रुतनिश्रितस्यैवाऽष्टाविंशतिभेदा इति । अतो न भवव्याख्यानं श्रेय इति । तदेवं 'उबारित्ताभावा' इत्यादिगाथा मूलटीकाभिप्रायेण व्याख्याताः। अन्ये त्वन्यथाऽपि व्याख्यानयन्ति, तदभिप्रायं त्वतिगम्भीरत्वाद् न विद्मः॥ इति गाथार्थः ॥ ३०६॥ तदेवमष्टाविंशतिविधत्वं भतिज्ञानस्योपदय विवक्षान्तरेण बहुतरभेदमप्येतत् भवतीति दर्शयनाइ जं बहु-बहुविह-खिप्पा-ऽनिस्सिय-निच्छिय-धुवे-यरविभिन्ना। पुणरुग्गहादओ तो तं छत्तीसत्तिसयभेयं ॥३०७/ यद् यस्माद् बहु-बहुविध-क्षिमा-ऽनिश्रित-निश्चित-धुवैः सेत्तरैः सप्रतिपक्षरेकैकशी विभिन्ना भेदभाजः पुनरप्यवग्रहादय इष्यन्ते । ततस्तदेवाऽष्टाविंशतिविधमाभिनिबोधिकज्ञानमेतेादशभिर्भेदैः प्रत्येकं भिद्यमानत्वात् पत्रिंशदधिर्कत्रिशतभेदं भवति । इदमुक्तं भवतिअनन्तरवक्ष्यमाणन्यायेन, संक्षेपतः प्रागभिहितयुक्त्या च श्रोत्रादिभिः कश्चिद् बहवगृह्णाति, कश्चित्वबहु, अपरस्तु बहुविधम् , अन्यस्त्वबहुविधम् । एवं यावदन्यो ध्रुवम् , अपरस्त्वध्रुवमवगृहातीति । एवमीहा-ऽपाय-धारणाखपि समभेदासु प्रत्येकममी द्वादश भेदा योजनीयाः। नवरमीहते, निश्चिनोति, धारयति, इत्याद्यभिलापः कार्यः। ततश्चाऽयाविंशतौ द्वादशभिर्गुणितायां षट्त्रिंशदधिकानि त्रीणि शतानि भेदानां भवन्ति ।। इति गाथार्थः॥३०७॥ अथ शब्दलक्षणं विषयमाश्रित्य तावद् बहादीनामर्थ व्याख्यातुमाहनाणासहसमूहं बहुं पिहं मुणइ भिन्नजाईयम् । बहुविहमणेगभेयं एकेकं निड-महुराई ॥ ३०८ ॥ .. अथ किं तत् श्रुतनिश्रितम् ।। २ श्रीनन्दीसूत्ररूपे। ३ भय किं तदश्रुतनिश्रितम् ।। ४ गाथा ३.३ । ५ यह पाह-बाविद्य-क्षिप्रा-निश्रित-निश्चित-धुवे-तरविभिखाः । पुनरवग्रहावयस्ततस्तत् पत्रिंशस्त्रिशतभेषम ॥१०७॥ ज. 'कंत्रि'। नानाशब्दसमूह पहुं पृथग् जानाति भिन्नजातीयम् । बहुविधमनेकभेदमेकैकं स्निग्ध-मधुराविम् ॥ ३०॥ क.ग. 'सुण'। ई-1 खिप्पमचिरेण तं चिय सरूवओ जं अणिस्सियमलिङ्गं । निच्छियमसंसयं जं धुवमच्चतं न उ कयाई ॥३०९॥ इह श्रवणयोग्यदेशस्थे तूर्यसमुदाये युगपद् वाद्यमाने कोऽपि श्रोता तस्य तूर्यसंघातस्य संबन्धिनं पटह-ढक्का-शङ्ख-भेरि-भाण कादिनानाशब्दसमूहमाकर्णितं सन्तं क्षयोपशमविशेषाद् बहुमवग्रहादिना 'मुणति' जानाति । कोऽर्थः १, इत्याह-पृथग भिन्नजातीयम् एतावन्तोत्र भेरिशब्दाः, एतावन्तो भाणकशब्दाः, एतावन्तस्तु शङ्ख-पटहादिशब्दाः, इत्येवं पृथगेकैकशो भिन्नजातीयत्वेन तं नानाश ब्दसमूह बुध्यत इत्यर्थः । अन्यस्त्वल्पक्षयोपशमत्वात् तत्समानदेशोऽप्यबहुं 'मुणति'- सामान्येन ' नानातूर्यशब्दोऽयम् ' इत्यादिमात्र कमेव जानातीति प्रतिपक्षः । एवमुत्तरगाथायामतिदक्ष्यमाणा प्रतिपक्षभावना सर्वत्राऽवबोद्धच्या । अन्यस्तु क्षयोपशमवैचित्र्याद् बहुवि 'मुणति' । कोऽयः १, इत्याह- अनेकभेदम् , इदमपि व्याचष्टे- एकैकं शङ्ख-भेर्यादिशब्द स्निग्धत्व-मधुरत्व-तरुण-मध्यम-वृद्धपुरुषवाद्यत्व दिबहुविधधर्मोपेतं जानातीत्यर्थः । अन्यस्त्वबहुविधं स्निग्ध-मधुरत्वादिखलपधान्वितमेव पृथग भिनजातीयं नानाशब्दसमूहं जानाति अन्यस्तु क्षिपम् । कोऽर्थः१, इत्याह- अचिरेण शीघ्रमेव परिच्छिनत्ति, न तु चिरेण विमृश्येत्यर्थः। अन्यस्त्वक्षि चिरविमार्शितं जानाति तथा 'तं चिय सरूवओ जं अणिस्सियमिति' तमेव नानाशब्दसमूह कोऽप्यनिश्रितं 'मुणति' इति संबन्धः। यं किम् ?, इत्याहखरूपतो जानाति । कोऽर्थः, इत्याह- अलिकं पताकादिलिङ्गाजनिश्रितमित्यर्थः । इदमुक्तं भवति-तमेव शब्दसमूह 'देवकुलम तथाविधपताकादर्शनात्' इत्येवं लिङ्गनिश्रामकृत्वा स्वरूपब एव यमवगच्छति, तमनिश्रितं 'मुणति' इत्युच्यत इति । तमेव लिङ्गनिश्रर जानानो निश्रितं 'मुणति' इच्युच्यते । तथा 'निच्छियमसंसय जति' यमसंशयमवच्छिनत्ति तं निश्चितं 'मुणति' । निश्चितं तावदित्यमेत मया, परं न जाने, तथा वा स्यात्, अन्यथा वा, इत्येवं संदेहानुविद्धं तु जानवनिश्चितं 'मुणति' । 'धुवमित्यादि' ध्रुवम् , कोऽर्थः ? अत्यन्तं, न तु कदाचिदिति । इदमुक्तं भवति- यथैकदा बहादिरूपेणाऽवगतं सर्वदैव तथाऽवबुध्यमानो ध्रुवं 'मुणति' इत्युच्यते । यर कदाचिद् बहादिरूपेण, कदाचित् त्वबहादिरूपेण, सोऽध्रुवं 'मुणति ॥ इति गाथाद्वयार्थः ॥ ३०८ ॥३०९॥ इतरशब्दं व्याचिख्यासुराह. ऍत्तो च्चिय पडिवक्खं साहिज्जा, निस्सिए विसेसो वा । परधम्महि विमिस्सं निस्सियमावणिस्सिय इयरं॥३१ क्षिप्रमचिरेण तमेव स्वरूपसो यमनिश्रितमलिङ्गम् । निश्चितमसंशयं यं ध्रुवमस्यन्तं न तु कदाचित् ॥ ३०९ ॥ २ क. घ. 'मुदये। ३ क. ग. 'देश्यमाना प्र'। एतस्मादेव प्रतिपक्षं कथयेद् निश्रिते विशेषो वा । परधर्मैर्विमिश्र निश्चितमविनिश्रितमितरत् ॥३३॥ For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy