SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 39 विशेषा० श्रुतानुसारिण्यास्तु श्रुतत्वादिति; यदि पुनः श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेत्यपधार्यते, तदा तदुपलब्धेर्मतित्वं सर्वथैव न स्यात , इज्यते चस्याश्चित तदपीति भावः। यदि श्रोत्रेन्द्रियोपलब्धिः श्रुतम् , तर्हि शेषं किं भवतु', इत्याह- 'सेसयं स्वित्यादि' श्रोत्रेन्द्रियोपलधि विहाय शेषकं यच्चक्षरादीन्द्रियचतुष्टयोपलब्धिरूपं तद् मतिज्ञानं भवति इति वतेते । तुशब्दः समुच्चये.स चैवं समच्चिनोतिनकेबलं शेषेन्द्रियोपलब्धिर्मतिज्ञानम्, किन्तु श्रोत्रेन्द्रियोपलब्धिश्च काचिदवग्रहे-हादिमात्ररूपा मतिज्ञानं भवति, तथा च सत्यनन्तरमवधारणव्याख्यानमपपनं भवति । 'सेसयं तु मइनाणं' इति सामान्येनैवोक्त शेषस्य सर्वस्याऽप्युत्सर्गेण मतित्वे प्राप्ते सत्यपवादमाह'मोत्तणं दव्वसयं ति' पुस्तकादिलिखितं यद् द्रव्यश्रुतं तद् मुक्त्वा परित्यज्यैव शेष मतिज्ञानं द्रष्टव्यम् , पुस्तकादिन्यस्तं हि भावत कारणत्वात शब्दवद् द्रव्यश्रुतमेव, इति कथं मतिज्ञानं स्यात्, इति भावः । न केवलं श्रोत्रेन्द्रियोपलब्धिः श्रुतम, किन्तु यश्च शेषेष ज गदीन्टियेष श्रतानुसारिसाभिलापविज्ञानरूपोऽक्षरलाभः सोऽपि श्रुतम्, न त्वक्षरलाभयानमा तस्येहा-ऽपायाद्यात्मके मतिशानेऽपि सद्भावादिति ॥ . आह- यदि चक्षुरादीन्द्रियाक्षरलाभोऽपि श्रुतम् , तर्हि यदायगाथावयवे 'श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम् ' इत्यवधारणं कृतम, तद नोपपद्यते, शेषेन्द्रियोपलब्धेरपीदानीं श्रुतत्वेन समर्थितत्वात् । नैतदेवम् , शेषेन्द्रिपाक्षरलाभस्यापि श्रोत्रेन्द्रियोपलब्धिरूपत्वात, स तानसारिसाभिलापज्ञानरूपोऽत्राधिक्रियते, श्रोत्रेन्द्रियोपलब्धिरपि चैवंभूतैव श्रुतमुक्ता । तता साभिलापविज्ञानं शेषेन्द्रियद्वारेणाऽप्यत्पन्न योग्यतया श्रोत्रेन्द्रियोपलब्धिरेव मन्तव्यम् , अभिलापस्य सर्वस्यापि धोत्रेन्द्रियग्रहणयोग्यत्वादिति ॥ ___अत्राह- ननु 'सोइंदिओवलद्धी होइ सुयं' ' तथा 'अक्खरलम्भो य सेसेसु' इत्युभयवचनाच्छूतज्ञानस्य सर्वेन्द्रियनिमित्तता सिद्धा, तथा 'सेसयं तु मइनाणं' इति वचनात् , तुशब्दस्य समुघयाच मतिज्ञानस्यापि सर्वेन्द्रियकारणता प्रतिष्ठिता; भवद्भिस्विन्दियविभागाद पति-श्रुतयोर्भेदः प्रतिपादयितुमारब्धः, स चैवं न सिध्यति, द्वयोरपि सर्वेन्द्रियनिमित्ततायास्तुल्यत्वप्रतिपादनादिति । अत्रोच्यते-साधक्तं भवता, किन्तु यद्यपि शेषेन्द्रियद्वाराऽऽयातत्वात् तदक्षरलाभः शेषेन्द्रियोपलब्धिरुच्यते, तथाऽप्यभिलापात्मकत्वादसौ श्रोत्रेन्द्रियग्रहणयोग्य एव, ततश्च तस्वतः श्रोत्रेन्द्रियोपलब्धिरेवाऽयम् । तथा च सति परमार्थतः सर्व श्रोत्रविषयमेव श्रतमानम. मतिज्ञानं तु तद्विषयं शेषेन्द्रियविषयं च सिद्धं भवति; अत इत्थमिन्द्रियविभागाद् मति-श्रुतयोर्भदोन विहन्यते, इत्यलं विस्तरेण ॥ इति पूर्वगतगाथासंक्षेपार्थः॥ ११७॥ अथ विस्तरार्थमभिधित्सुर्भाष्यकार एव परेण पूर्वपक्षं कारयितुमाह सोओवलद्री जइ सुयं न नाम सोउग्गहादओ बुद्धी । अह बुद्धीओ न सुयं अहोभयं संकरो नाम ॥११८॥ 'श्रोत्रोपलब्धिरेव श्रुतम्' इत्यवधारणार्थमनवगच्छतः 'श्रुतमेव तदुपलब्धिः' इत्येवं च तदर्थमवबुध्यमानस्य परस्य वचनमि लब्धिः श्रुतमेव, तर्हि 'माय' इति कोमलामन्त्रणे, अहो ! श्रोत्रेन्द्रियद्वारोत्पन्ना अवग्रहे-हादयो बुद्धिर्मतिज्ञानं न प्राप्नुवन्ति, तदुपलब्धेः सर्वस्या अपि श्रुतत्वेनाऽवधारणात् । मा भूवंस्ते मतिज्ञानम् , किं नः सूयते ? इति चेत् । नैवम् , तथा सति तस्य वक्ष्यमाणाऽष्टाविंशतिभेदभिन्नत्वहानेः। अथैतद्दोषभयाद् बुद्धिस्तेऽभ्युपगम्यन्ते, ततस्तर्हि न ते श्रुतम् , तथा च सति 'सोइन्दिओवलद्धी होइ सुयं' इत्यसंगतं प्रामोति । अथोभयदोषपरिहारार्थ 'उभयं' बुद्धिश्च श्रुतं च ते इष्यन्ते । तद्येवं सत्येकेस्थानमीलितक्षीर-नीरयोरिव संकरः संकीर्णता मति-श्रुतयोरामोति, न पृथग्भावः । अथवा 'यदेव मतिस्तदेव श्रुतं, यदेव च श्रुतं तदेव मतिः' इत्येवमभेदोऽप्यनयोः स्यात् , इति स्वयमेव द्रष्टव्यम् भेदश्चेह तयोः प्रतिपादयितुं प्रस्तुतः, तदेतच्छान्तिकरणमवृत्तस्य बेतालोस्थानम् ॥ इति प्रेरकगाथार्थः॥ ११८ ॥ . तदेतत् मेर्य केचिद् यथा परिहरन्ति , तथा तावद् दर्शयन्नाह कई बेन्तस्स सुयं सद्दो सुणओ मइ ति, तं न भवे । जं सव्वो च्चिय सदो दव्वसुयं तस्स को भेयो ? ॥११९॥ ___ 'सोइंदिओवलद्धी' इत्यत्र श्रोत्रेन्द्रियेणोपलब्धिर्यस्येति केवलबहुव्रीह्याश्रयणात् श्रोत्रेन्द्रियोपलब्धिः शब्द एवेति केचिद् मन्यन्ते, सच प्रज्ञापकस्य ब्रुवतः श्रूयत इति कृत्वा श्रुतम् , शृण्वतस्तु श्रोतुरवग्रहे-हा-ऽपायादिरूपेण मन्यते ज्ञायत इति मतिः । एवं च सत्युभयमुपपन्नं भवति, श्रोतृगताऽवग्रहादीनां च श्रुतत्वं परिहृतं भवति । आचार्यः माह- 'तं न भवे त्ति' तदेतत् केषाश्चिद् मतं युक्तं न भवति । कुतः, इत्याह- यद् यस्मात् कारणाद् ब्रुवतः श्रोतुश्च संबन्धी सर्व एव शब्दो द्रव्यश्रुतम् , द्रव्यश्रुतमात्रत्वेन च - सर्वत्र तुल्यस्य सतस्तस्य शब्दस्य को भेदः को विशेषः, येनासौ वक्तरि श्रुतं, श्रोतरि तु मतिः स्यात् । यदपि 'श्रूयत इति श्रुतं' 'मन्यत इति मतिः' उच्यते, तत्रापि धात्वन्तरमात्रकृत एव विशेषः, शब्दस्तु स एव श्रूयते स एव मन्यते, इति न कचिदुभयं दृश्यते ॥ इति गाथार्थः ॥ ११९ ॥ १ श्रोत्रोपलब्धिर्यदि श्रुतं न नाम श्रोत्रावग्रहादयो धुद्धिः । अथ बुद्धयो न श्रुतमथोभयं संकरो नाम ॥१८॥२ गाथा ११७॥ ३ केचिद् अ॒वतः श्रुतं शब्दः शृण्वतो मतिरिति, तद् न भवेत् । यत् सर्व एव शब्दो द्रव्यश्रुतं तस्य को भेदः ? ॥१९॥ बाजार For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy