________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
31 विशेषा० इत्यनैकान्तिक इति चेत् । नैवम् , अभिमायाऽपरिज्ञानात्, संकेत-स्मरणादिपूर्वको हि निश्चयोऽत्र विवक्षितः, तादृशश्वाऽयमवध्यादिषु नास्ति, ज्ञानविशेषत्वात् तेषाम् , इत्यदोषः ॥ इति गाथार्थः ॥ ९३ ॥
तदेवमविशेषितमिन्द्रिय-मनोनिमित्तं ज्ञानं पक्षीकृत्य संशयादिसंभवहेतुद्वारेण परोक्षत्वं साधितम् । सांपतं विशेषत एव मति-श्रुते पक्षीकृत्य हेत्वन्तरेणापि तत् शिसाधयिषुराह
होन्ति परोक्खाई मइ-सुयाई जीवस्स परनिमित्ताओ । पुव्वोवलद्धसंबंधसरणाओ वाणुमाणं व ॥९॥ मति-श्रुते जीवस्य परोक्षे, परनिमित्तत्वात् , पूर्वोपलब्धसंबन्धस्मरणद्वारेण जायमानत्वाद् वा, अनुमानवत् ॥ इति गाथार्थः॥९४॥
आह- नन्विन्द्रिय-मनोनिमित्तं ज्ञानं परोक्षमिति यदुक्तं तदुत्सूत्रमेव, यतः सूत्रे प्रोक्तम्- " पंचक्खं दुविहं पन्नत्तं, तं जहाइन्दियपच्चक्खं च नोइंदियपचक्खं च" इति । सत्यम् , किन्तु येयमिन्द्रियजज्ञानस्य प्रत्यक्षता प्रोक्ता सा संव्यवहारमात्रत एव, परमार्थतस्तु परोक्षमेवेदम् । तथाच भाष्यकारो विषयविभागमुपदर्शयनिदमेवाह
एगतेण परोक्खं लिंगियमोहाइयं च पच्चक्खं । इंदिय-मणोभवं जं तं संववहारपञ्चक्खं ॥ १५ ॥
'एगंतेण परोक्खं लिंगियगिति ' बाह्ये धूमादौ लिङ्गे भवं लैङ्गिकं यज्ज्ञानं तदेकान्तेनाऽऽत्मन इन्द्रिय-मनसा चाऽसाक्षात्कारेगोपजायमानत्वादेकान्तपरोक्षम्- इ.4-मनोभिहीते बाह्ये धूमादा लिङ्गोऽग्न्यादिविषयं यज्ज्ञानमुत्पद्यते तदेकान्तेन परोक्षम, इन्द्रियमनसामात्मनश्च तद्ग्राह्यार्थस्यैकान्तेन परोक्षत्वात् , इति भावः । 'ओहाइयं च पच्चक्खमिति' 'एकान्तेन' इत्यत्रापि वर्तते, ततश्चाऽवधिमनःपर्याय-केवललक्षणं ज्ञानत्रयमेकान्तेनाऽऽत्मनःप्रत्यक्षम् , बाह्यलिङ्गमन्तरेणेन्द्रिय-मनोनिरपेक्षत्वेन च जीवस्य वस्तुसाक्षात्कारित्वादिति। 'इंदियमणोभवमित्यादि ' यत्पुनरिन्द्रिय-मनोभवं ज्ञानं तत् संव्यवहारप्रत्यक्षम् , लिङ्गमन्तरेणैव यदिन्द्रिय-मनसा वस्तुसाक्षात्कारित्वेन ज्ञानमुपजायते तत् तेषां प्रत्यक्षत्वाल्लोकव्यवहारमात्रापेक्षया प्रत्यक्षमुच्यते, न परमार्थत इत्यर्थः, इन्द्रिय-मनासु अचेतनत्वेन ज्ञानवृत्तेरभावादिति मागेवोक्तम् । एतामेव च संव्यवहारप्रत्यक्षतामपेक्ष्याऽऽगमेऽपीन्द्रियप्रत्यक्षमित्युक्तम् , परमार्थतस्त्ववध्यादिकमेव प्रत्यक्षम् , आत्मनः प्रत्यक्षत्वात् , इदं तु तस्य परोक्षम् , परनिमित्त्वात् , अनुमानादिवत् , इत्यनेकधा प्रोक्तमेव ॥
भवतः परोक्षे मति-श्रुते जीवस्य परनिमित्तात् । पूर्वोपलब्धसंबन्धस्मरणाद् वाऽनुमानमिव ॥ ९ ॥+ नन्यध्ययने-॥ २ नन्द्यध्ययने । ३ प्रत्यक्षं द्विविध प्रज्ञप्तम् , तद्यथा-इन्द्रियप्रत्यक्षं च नोइन्द्रियप्रत्यक्षं। 5वा-॥
एकान्तेन परोक्षं लैङ्गिकमवध्यादिकं च प्रत्यक्षम् । इन्द्रिय-मनोभवं यत् तत् संव्यवहारप्रत्यक्षम् ॥ ९५ ॥ आह-ननु भाष्यकारेणाऽपि कुत एतल्लब्धं यदुत-इन्द्रियमनोभवं ज्ञानं संव्यवहारत एव प्रत्यक्षम्, न परमार्थतः; न पत्र सूत्रे किमप्ये विशेषतः प्रोक्तंमस्ति 'इन्द्रियप्रत्यक्षम्' इति सामान्येनैव निर्देशात् । सत्यम्, किन्तु प्रदेशान्तरे प्रोक्तम्-" पेरोक्खं दुविहं पनत्तं तं जहा- आभिणिबहिअनाणं परोक्खं च, सुयनाणं परोक्खं च" इति । न चाऽऽभिनिबोधिक-श्रुताभ्यामन्यदिन्द्रियनिमित्तं ज्ञानमस्ति यत् परमार्थतः प्रत्यक्षं स्यादिति ॥
__ आह-यद्येवम् , तर्हि यल्लिङ्गमन्तरेणैव साक्षादिन्द्रियनिमित्तं ज्ञानमुत्पद्यते तत् परमार्थतः प्रत्यक्षमस्तु, यत्तु धूमादिलिङ्गादग्न्यादिविषयं लैङ्गिकं ज्ञानं तत परोक्षस्वरूपे आभिनिबोधिक-श्रुते इष्यताम, इत्यागमस्य प्रदेशद्वयोक्तमपि धूमादिलिङ्गादग्न्यादिविषयलैङ्गिकज्ञानस्येन्द्रियनिमित्तत्वाभावात् , इन्द्रियं हि प्रत्युत्पन्नकालमात्रभाव्येव वस्तु गृह्णाति, लिङ्गात् तु वदयादिरर्थस्त्रिकालविषयोऽप्यनुमीयते । तस्माल्लैङ्गिक ज्ञानं मनोनिमित्तमेव भवति, नेन्द्रियनिमित्तम् , इन्द्रिय-मनोनिमित्ते च मति-श्रुते अत्रैव वक्ष्येते, इति कथं केवलमनोविषयस्य लैङ्गिकज्ञानस्यैव मति-श्रुतरूपता स्यात् । किश्च, इन्द्रियजज्ञानस्य मति-श्रुताभ्यां पार्थक्ये षष्ठज्ञानप्रसङ्गः स्यात् । तस्मादिन्द्रियजज्ञानस्य मति-श्रुतयोरेवाऽन्तर्भावः, तथा च सति मति-श्रुतयोः परोक्षत्वे तस्याऽपि पारमार्थिकं परोक्षत्वमेव, मनोनिमित्तस्यापि ज्ञानस्य परनिमित्तत्वादनुमानवत् परोक्षत्वं पागेवोक्तम् । न च वक्तव्यम्-आगमे तत् तस्य न कचिद् विशेषतोऽभिहितम् , यतो मति-श्रुतयोरागमे परोक्षत्वस्य विशेषतोऽभिधानात्, मनोनिमित्तस्याऽपि च ज्ञानस्य तदन्तःपातित्वादिन्द्रियजज्ञानस्येव परोक्षत्वं सिद्धमेव ।।
आह-ननु " इंदियपचक्खं च नोइंदियपञ्चक्खं च " इत्यत्र मनोनिमित्तज्ञानस्य सिद्धान्ते प्रत्यक्षत्वमुक्तम् , यतो नोइन्द्रियं तत्र मन उच्यते, तस्येन्द्रियैकदेशत्तित्वात, नोशब्दस्य चैकदेशवचनत्वात्। ततश्च नोइन्द्रियनिमित्तं प्रत्यक्षं नोइन्द्रियप्रत्यक्षमिति व्युत्पत्या मनोनिमित्तज्ञानस्य प्रत्यक्षतैव स्यात् , कथं परोक्षता ? इति । तदयुक्तम् , आगमार्थाऽपरिज्ञानात् , तत्र हि नोशब्दः सर्वनिषेधवचनः, ततश्चेन्द्रियाभाव एव नोइन्द्रियमुच्यते, तथा च सति नोइन्द्रियेणेन्द्रियाभावेनाऽऽत्मनः प्रत्यक्षं नोइन्द्रियप्रत्यक्षमिति समासः, सर्वथेन्द्रियप्रवृत्तिरहितानि चाऽऽत्मनः प्रत्यक्षाण्यवधि-मन:पर्याय-केवलान्येव भवन्ति, न पुनर्मनोनिमित्तं ज्ञानम् । यदि पुनर्नोइन्द्रियं तत्र मनो व्याख्यायेत, तदा नोइन्द्रियनिमित्तं प्रत्यक्षमिति मनोनिमित्तमेवाऽवध्यादि ज्ञानं प्रत्यक्षं स्यात् , तथा च सति मनःपर्याप्त्याऽपर्याप्तस्य मनुष्य-देवादेरवधिज्ञानं न स्यात् , मनसोऽभावात् , तच्चाऽयुक्तम् , “चुएमि त्ति जाणइ" इति वचनेन सिद्धान्ते तस्याऽवधिज्ञानाभ्युपगमा
, नन्दीसूत्रस्येति गम्यते। २ परोक्षं द्विविधं प्रज्ञप्तम् , तद्यथा-, आभिनिबोधिकज्ञानं परोक्षं च श्रुतज्ञानं परोक्षं च । ३ च्यवे इति जानाति ।
For Private and Personal Use Only