SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 311 विशेषा ० 'कंसणेण तीसे सहो सुबह न हरिसभाए वि । कंथीकरणवइयरो विन्नाओ केसवेण तओ ॥ २२ ॥ माराविओ य सो भेरिरक्खओ, तेण अट्ठमं काउं । आराहिओ स देवो अन्नं भेरिं च सो देइ ॥ २३ ॥ अन्नो य केसवेण कओ तर्हि भेरिपालओ सो य । रक्खइ तं जतेणं लहेइ लाभं च तो हरिणो ॥ २४ ॥" Acharya Shri Kallassagarsuri Gyanmandir अथ गाथाक्षरार्थः कथ्यते-- स शिष्योऽनुयोगश्रवणस्य न योग्यः । यः, किम् १, इत्याह- यः सूत्रम्, अर्थ वा चन्दनकन्यावत् परमतादिभिर्मिंश्रयति । गलितं वा विस्मृतं शिक्षितमानेन शिक्षितत्वाहङ्कारेण परमतादिभिर्मिश्रयित्वा संपूर्ण करोति । इदमुक्तं भवति - यथा भेरीपालकेन गोशीर्ष - श्रीखण्डभेरी इतरचन्दनखण्डैर्मिश्रयित्वा कन्था कृता, एवं यः शिष्यः सूत्रमर्थं वा परमतेन, आदिशब्देन स्वकीयेनैव ग्रन्थान्तरेण मिश्रयित्वा कन्थीकरोति, अथवा, विस्मृतं मूत्रमर्थं वा 'सुशिक्षितः स्वयमेवाहम्, नान्यं कञ्चित् कदाचित् किमपि पृच्छामि' इत्यङ्कारेण परमतादिभिरपि मिश्रयित्वा संपूर्ण विदधाति सोऽनुयोगश्रवणस्य न योग्य इति । एवं कन्थीकृतसूत्रार्थी गुरुरप्यनुयोगभाषणस्य न योग्यः, किन्त्वविनाशितसूत्रार्थाः शिष्या-ssचार्या अनुयोगस्य योग्या विनिर्दिष्टा इति ।। १४३८ ।। १४३९ ॥ अथ चेदृष्टान्तो विव्रियते— अत्थाणत्थनिउत्ताभरणाणं जिण्णसेट्ठिधूय व्व । न गुरू विभिणिए वा विवरीयनिओयओ सीसो ॥ १४४ ॥ सत्थाणत्थनिउत्ता ईसरधूया सभूसणाणं व । होइ गुरू सीसोऽवि य विणिओतो जहाभणियं ॥ १४४१ ॥ भावार्थ: कथानकेनोच्यते- वसन्तपुरे नगरेऽग्रेतनः श्रेष्ठी राज्ञा पदात् स्फेटितोऽम्यो नवश्रेष्ठी विहितः । तथापि जीर्णश्रेष्ठदु हिश्रेष्ठत्रासह कथमपि महती प्रीतिः संजाता । परं तथापि जीर्णश्रेष्ठिपुत्रिका हृदये कालुष्यं न मुञ्चति 'वयमेतैः पदात् परिभ्रंशिताः' इति । अन्यदा च ते द्वे अपि जलाशये कचिद् गते । ततश्वाभरणानि तटे मुक्त्वा नत्रश्रेष्ठिदुहिता जीर्णश्रेष्ठिपुत्रिका सहैव १ कम्थात्वेन तस्याः शब्दः श्रूयते न हरिसभायामपि । कम्धीकरणव्यतिकरो विज्ञातः केशवेन ततः ॥ २२ ॥ मारितश्च स भेरिरक्षकः, तेनाष्टमं कृत्वा आराधितः स देवोऽन्यां भेरीं च स ददाति ॥ २३ ॥ अन्यश्च केशवेन कृतस्तत्र भेरिपालकः स च रक्षति तां यत्नेन लभते लाभं च ततो हरेः ॥ २४ ॥ २ क.ग. 'नभेरीक' । ३.ग. 'पंश्रीखण्डभे' । ४ अस्थानार्थनियोक्ताभरणानां जीर्णश्रेष्टिदुहितेव । न गुरुर्विधिभणिते वा विपरीतनियोजकः शिष्यः ॥ १४४० ॥ अस्वस्थामार्थनियोक्ता ईश्वरदुहिता स्वभूषणानामिव भवति गुरुः शिष्योऽपि विनियोजयन् यथाभणितम् ॥ ९४४१ ॥ • मज्जनार्थं प्रविष्टा । ततश्च जीर्णश्रेष्ठिदुहिता झगित्येव जलाद् निर्गत्य नवश्रेष्ठिदुहितुसत्कान्याभरणानि गृहीत्वा fear | इतरया तु जलमध्यगततयाऽभ्युच्चैः स्वरेण निषिद्धा । वतच 'का त्वम् ? कानि च तानि त्वदीयाभरणानि ?, मया होतान्यात्मीयान्येव गृहीतानि' इत्यादि जल्पन्ती गाउमाक्रोशन्ती च सा गृहं गता । कथितं च निजमाता- पित्रोः । अनुपतं च तत् ताभ्याम् । भणिताऽसौ तूष्णीं विधाय तिष्ठत्वम् । तत इतरयापि निजपित्रोस्तत् कथितम् । याचितानि च ताभ्यां ताभ्याभरणानि । न समर्पयन्ति चेतराणि । ततो राजकुल व्यवहारो जातः । कारणिकैश्व साक्षी पृष्टः । न च कोऽप्यसौ संजातः । ततस्ते द्वे अपि दारिके आकार्य जीर्णश्रेष्टिदुहिता प्रोक्ता - यदि त्वदीयान्याभरणानि, तर्हि झगित्येवामून्यस्माकमेव पश्यतां परिधाय दर्शय । यावचैषा तानि परिधातुमारब्धा, तावदनभ्यासादन्यस्थानोचितमाभरणमन्यत्र नियोजयति । यदपि किञ्चित् स्थाने नियुङ्क्ते तदप्यष्टिमेवाभाति, क्षुभितत्वेन च न किञ्चिदसौ जानाति । ततो नवश्रेष्टिदुहिता तैरुक्ता । तया च स्वभ्यस्ततया स्थानौचित्येन सर्वाण्यप्याभरणानि झगित्येव परिहितानि श्लिष्टानि चातीव शोभन्ते । ततस्तैः पुनरपि सा प्रोक्ता - झगित्येव मुञ्च तानि । तया च क्रमेणावतार्य तथैव मुक्तानि । ततो ज्ञातः कारणिकैः सद्भावः । दण्डितश्च शरीरनिग्रहेण राज्ञा जीर्णश्रेष्ठी । तदुहिता चाऽनर्थभाजनं संजाता । एवं जीर्णदुहितेवाभरणानामस्थानेऽर्थानां नियोक्ता न गुरुः- गुरुपदयोग्योऽसौ न भवतीत्यर्थः । ऐहिकामुष्मिकानां निःसंख्यानर्थानां भाजनमसौ संपद्यते । विधिभणिते च गुरुणा यथावत् प्ररूपिते चाज्ञानादिना विपरीतयोजकः शिष्योऽपि न नैव श्रवणयोग्यः, नापि कल्याणभागित्यर्थः । स्वस्थाने त्वर्थानां नियोक्ता, ईश्वरदुहितेव स्वभूषणानां गुरुर्योग्यो भवति । शिष्योऽपि गुरुभिर्यथो पदिष्टं तथैव नियोजयन् श्रवणयोग्यः कल्याणभाक् च भवतीति || १४४० | १४४१ ।। श्रावकोदाहरणभाष्यम् - 'चिरपरिचियं पि न सरइ सुत्तत्थं सावओ सभज्जं व । जो न स जोग्गो सीसो गुरुत्तणं तस्स दूरेणं ॥ १४४ २ || इह कथानकं 'गजा' इत्यादौ कथितमेव । ततथ यथा चिरपरिचितामपि स्वभार्या परकलत्रबुद्धया भुञ्जानो न स्मरति, एवं चिरपरिचितमपि सूत्रार्थ यः शून्यहृदयतया न स्मरति, स शिष्यो न योग्यः शिष्यस्वस्यापि, गुरुत्वं तु तस्य दूरेणेनेत्यर्थः । १४४२ ।। + च शून्य भूतया । x झटित्येवन १. चिरपरिचितमपि न स्मरति सूत्रार्थं श्रावकः स्वभार्यामिव । यो न स योग्यः शिष्यो गुरुत्वं तस्य तूरेण ॥ ९४४२ ॥ For Private and Personal Use Only २ गाथा १४१२ ।
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy