________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
295 विशेषा० 'तदुभयमत्थो य जह त्ति' यथा च तयोः सामान्य-विशेषयोरुभयं तदुभयमर्थो भण्यते- अर्थशब्दवाच्यं द्वितयमप्येतद् भवतीत्यर्थः । ते च सामान्य-विशेषा-ऽर्थलक्षणास्त्रयोऽप्यर्था विष्वक् पृथग् यथा बहुपर्याया बढेकार्थाः, तद्यथा- सामान्यं, सत्ता, भाव इत्यादि। विशेषाः, भेदाः, पर्याया इत्यादि । अर्थः, द्रव्यं, वस्त्वित्यादि ।
एवं प्रस्तुतयोः मुत्रा-ऽर्थयोरपि विवक्षयैकार्थतादयो भावनीयाः, तथाहि-प्रवचनलक्षण एकस्मिन्नर्थे द्वयोरपि सूत्रा-ऽर्थयोवृत्तत्वादेकार्थता; सूत्रस्य वाचकत्वात् , अर्थस्य तु वाच्यत्वाद् भिन्नार्थता । 'पवयणमुभयं च तय ति तच्च सूत्रा-ऽर्थयोरुभयमपि प्रवचनमुच्यते । त्रिकं चैतत् सूत्रा-ऽर्थ-प्रवचनलक्षणं विष्वक् पृथग् बहुपर्यायं बहेकाथिकम् , तथा च वक्ष्यति- 'सुयधम्म तित्थ मग्गो' इत्यादि
॥ १३७४ ।। १३७५॥ - अथवा, नयमतभेदादेषां त्रयाणामपि प्रवचनादीनामेकार्थता, पृथग्बहुपर्यायस्वं च न विरुध्यते, इति दर्शयन्नाह-:
अहवा सव्वं नामं वंजणसुडियनयस्स भिन्नत्थं । इयरस्स अभिन्नत्थं संववहारो य तदवेक्खो ॥१३७६॥ .. संववहारट्ठाए तम्हा जेणेगया, न निच्छयओ। तो जुत्ताई तेसिं वीसुं पज्जायनामाइं ॥ १३७७॥
अथवा, व्यञ्जनशुद्धिकनयः समभिरूढलक्षणः शुद्धनयस्तस्याभिभायात् सर्वमपि नाम भिन्नार्थमेव, शब्दभेदात् , घट-पटाथभिधानवदिति । इतरस्य तु नैगमादेरर्थनयस्याभिषायादभिन्नार्थमपि नाम भवति, वस्तुनोऽनेकपर्यायत्वात् , शक्रे-न्द्र-पुरन्दरादिनामवदिति । किञ्च, संव्यवहारश्च लोकव्यवहारश्च तदपेक्षोऽभिन्नार्थनामापेक्ष एकार्थिकनामापेक्षा प्रायः प्रवर्तत इत्यर्थः, स्वः, स्वर्गः, सुरसब, त्रिदशावासः, त्रिविष्टपं, त्रिदिवमित्यायेकार्थिकनाममालादिशास्त्राणां संव्यवहारनयापेक्षयैव प्रवृत्तेरिति । ततः किम १, इत्याह-'संवबहारेत्यादि' तस्माद् येनोक्तमकारेण संव्यवहारार्थतया व्यवहारनयापेक्षया नान्नामेकता- एकार्थताऽप्यस्तीत्यर्थः, न निश्चयतः शुद्धतरशब्दमयलक्षणनिश्चयनयमतेन सर्वेषामपि भिन्नार्थत्वाद् न कचिदेकार्थतेत्यर्थः । ततस्तस्मात् तेषां प्रवचन-सूत्रा-ऽर्थानां विष्वक् पृथग व्यवहारनयमतेन युक्तानि घटमानकानि पर्यायनामान्येकाथिकाभिधानानि ।। इत्येकादशगाथार्थः ॥१३७६॥१३७७॥ तत्र प्रवचन-मूत्रयोस्तावत् पञ्च पश्चैकार्थिकान्याह१ गाथा १३७४ । २ अथवा सर्व नाम व्यअनशुन्द्रिकमयस्य भिन्नार्थम् । इतरस्याऽभिन्नार्थ संव्यवहारश्च तदपेक्षः ॥ १३७६॥
संग्यपहारार्थतया तस्माद् येनेकता,निश्चयतः । ततो युक्तानि तेषां विष्वक् पर्यायनामानि ॥ १७ ॥ सुयधम्म तित्थ मग्गो पावयणं पवयणं च एगट्ठा । सुत्तं तंतं गंथो पाठों सत्थं च एगट्ठा ॥ १३७८ ॥
श्रुतधर्मः, तीर्थ, मार्गः, मावचन, प्रवचनम् , एतानि प्रवचनैकार्थिकानि । सूत्र, तन्त्रं, ग्रन्थः, पाठः, शास्त्र च, इत्येतानि सूत्रैकार्थिकानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १३७८ ॥
तत्र श्रुतधर्म इति कोऽर्थः १, इत्याह
बोहो सुयस्स धम्मो सुयं व धम्मो स जीवपज्जाओ। सुगईए संजमम्मि य धरणाओ वा सुयं धम्मो॥१३७९।
श्रुतस्य धर्मः स्वभावः, स च बोधः, बोधस्वभावत्वात् श्रुतस्य । अथवा, श्रुतं च तदू धर्मश्च श्रुतधर्मो जीवपर्यायः अथवा, सुगतो, संयमे वा धारणात् धर्मः श्रुतमुच्यते, श्रुतं च तद् धर्मश्चेति श्रुतधर्मः ॥ १३७९ ।।
अथ तीर्थशब्दार्थमाह--
'तित्थं ति पुव्वभणियं संघो जो नाण-चरण-संघाओ। इह पवयणं पि तित्थं तत्तोऽणत्यंतरं जेण ॥१३८०॥
तीर्यतेऽनेनेति तीर्थ पूर्वमेवाऽत्राप्युक्तम् । किम् , इत्याह- संघः । किविशिष्टः । शान-दर्शन-चारित्रगुणसंपातः । इह तु प्रवचनमपि तीर्थमुच्यते यस्मात् , ततः संघातात् तदपि श्रुतज्ञानरूपत्वादनान्तरमेवेति ॥ १३८०॥
मार्गशब्दार्थमाह
मैजिज्जइ सोहिज्जइ जेणं तो पवयणं तओ मग्गो । अहवा सिवस्स मग्गो मग्गणमन्नेसणं पंथो ॥१३८१॥
ततस्तस्मात् प्रवचनं मार्ग उच्यते । येन किम् ?, इत्याह- 'मजू शुद्धौ' मुज्यते शोध्यतेऽनेन कर्ममलिन आत्मा, तस्माद् हेतोः । अथवा, मार्गणं मार्गोऽन्वेषणं पन्थाः शिवस्येति ॥ १३८१॥
, भुतधर्मस्तीर्थ मार्गः प्रावचनं प्रवचन कार्यानि । सूत्रं तन्त्र प्रन्या पाठः शावं वैकार्थानि ॥ १७ ॥ढी-1+ ता२ पोधः श्रुतस्य धर्मः श्रुतं वा धर्मः स जीवपर्यापः । सुगतौ संयम धारणा वा भुतं धर्मः ॥७९॥.
तीर्थमिति पूर्वभणितं संघो यो शाम-चारित्रसंघातःह प्रवचनमपि तीर्थ ततोऽनन्तरं पेन16.॥ प.छ.ज. 'र्स' । ५ मुज्यते शोध्यते येन ततः प्रवचनं ततो मार्ग।। अथवा शिवस्य मार्गों मार्गणमम्वेषणं पन्थाः ॥११ ॥
For Private and Personal Use Only