________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
22
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा ०
णपरिणतत्वादाकारवती, तदनाकारवच्चे तु 'नीलस्येदं संवेदनं न पीतादे: ' इति नैयर्त्य न स्यात्, नियामकाभावात् नीलाद्याकारी हि नियामकः, यदा च स नेष्यते तदा 'नीलग्राहिणीयं मतिर्न पीतादिग्राहिणी' इति कथं व्यवस्थाप्यते १, विशेषाभावात् तस्मादाकारवत्येव मतिरभ्युपगन्तव्या । शब्दोऽपि पौगलिकत्वादाकारवानेव । घटादिकं वस्त्वाकारवश्चैन प्रत्यक्षसिद्धमेव । क्रियाऽप्युत्क्षेपणा-वक्षेपणादिका क्रियावतोऽनन्यत्वादाकारवत्येव । फलमपि कुम्भकारादिक्रियासाध्यं घटादिकं मृत्पिण्डा दिवस्तुपर्यायरूपत्वादाकारवदेव । अभिधानमपि शब्दः, स च पौगलिकत्वादाकारवानित्युक्तमेव । तस्माद् यदस्ति तत् सर्वमाकारमयमेव यवनाकारं तद् नास्त्येव, वन्ध्यापुत्रादिरूपत्वात् तस्य ॥ इति गाथार्थः ॥ ६४ ॥
अथ प्रयोगद्वारेणाऽनाकारं वस्तु निराचिकीर्षुराह
ने पराणुमयं वत्थु आगाराऽभावओ खपुष्कं व । उवलंभ व्ववहाराऽभावाओ नामागारं च ॥ ६५ ॥
परस्याऽऽकारवद्वस्तु निषेधकस्याऽनुमतमभिप्रेतं सामर्थ्याद् यदनाकारं वस्तु तद् नास्ति, आकाराभावात् खपुष्पवत् । अपरमपि हेतुद्वयमाह - 'उवलंभेत्यादि' 'नाणागारमिति' नास्त्यनाकारं वस्तु, सर्वथैवाऽनुपलभ्यमानत्वात्, तेनाऽणीयसोऽपि व्यवहारस्याSभावाच इति पर्यन्तवर्ती चकारोऽत्र योजनीयः, संपुष्पवदिति दृष्टान्तो हेतुद्वयेऽपि स एव ।। इति गाथार्थः ॥ ६५ ॥
तदेवं स्थापनानयेनोक्ते द्रव्यनयः प्राह
देव्वपरिणाममित्तं मोत्तूणाऽऽगारदरिसणं किं तं ? । उप्पायव्वयरहिअं दव्वं चिय निव्वियारं तं ॥ ६६ ॥
कोहि नाम स्थापना यस्याऽऽकारग्रहः ?, यस्माद् द्रवतीति द्रव्यमनादिमदुत्प्रेक्षितपर्यायशृङ्खलाधारं मृदादि पूर्वपर्यायमात्रतिरोभावेऽग्रे तन पर्याय मात्राऽऽविर्भावः परिणामो द्रव्यस्य परिणामो द्रव्यपरिणामः स एव तन्मात्रं तद् मुक्त्वा किमन्यदाऽऽकारदर्शनम्, ratord ' औगारो चिय मह-सह-वधु -' इत्यादि । ननु द्रव्यमेव तत् । किंविशिष्टम् १, उत्पाद-व्ययरहितं निर्विकारं- उत्फण-विफ- कुण्डलिताकारसमन्वितसर्वद्रव्यवद् विकाररहितम् ; किं हि नाम तत्राऽपूर्वमुत्पन्नम्, विद्यमानं वा विनष्टम्, येन विकारः स्यात् १, इति भावः ॥ इति गाथार्थः ॥ ६६ ॥
१ न परानुमतं वस्तु आकाराऽभावात् खपुष्पमिव । उपलम्भ-व्यवहाराऽभावाद नानाकारं च ॥ ६५ ॥ + मेन्तं- दि.द. ॥ २ द्रव्यपरिणाममानं मुक्त्वाऽऽकारदर्शनं किं तत् ? । उत्पादव्ययरहितं द्रव्यमेव निर्विकारं तत् ॥ ६६ ॥ ३ गाथा ६४ ।
ननु कथमुत्पादादिरहितमुच्यते, यावता सर्पादिके द्रव्ये उत्फण-विफणादयः पर्याया उत्पद्यमाना निवर्तमानाश्च प्रत्यक्षेणैव दृश्यन्ते १, इत्याह
·
ओविभाव- तिरोभावमेत्तपरिणामकारणमचिन्तं । निच्चं बहुरूवं पि य नडो व्व वेसंतरावन्नो ॥ ६७ ॥ आविर्भावश्च तिरोभावश्च तावेव तन्मात्रं तदेव परिणामस्तस्य कारणं द्रव्यम्, यथा सर्प उत्फण-विफणावस्थयोरिति न ात्राऽपूर्व किञ्चिदुत्पद्यते, किं तर्हि ?, छन्नरूपतया विद्यमानमेवाऽऽविर्भवति । नाऽप्याविर्भूतं सद् विनश्यति, किन्तु च्छन्नरूपतया तिरोभावमेवाss सादयति । एवं च सत्याऽऽविर्भाव तिरोभावमात्र एव कार्योपचारात् कारणत्वमस्यौपचारिकमेव । तस्मादुत्पादादिरहितं द्रव्यमुच्यत इति । आह- ननु यद्येकस्वभावं निर्विकारं द्रव्यम् तर्ह्यनन्तकाल भाविनामनन्तानामध्याविर्भाव तिरोभावानामेकहेलयैव कारणं किमिति न भवति १, इत्याह- अचिन्त्यमचिन्त्यस्वभावं द्रव्यम्, तेनैकस्वभावस्याऽपि तस्य क्रमेणैवाऽऽविर्भाव तिरोभावप्रवृत्तिः, सर्पादिद्रव्यभ्वकस्वभावेष्वप्युत्कण-विफणादिपर्यायक्रममवृत्तेः प्रत्यक्षसिद्धत्वादिति । ननु यद्येवम्, उत्फण-विफणादिबहुरूपत्वात् पूर्वावस्थापरित्यागेन चोरावस्थाऽधिष्ठानाद् अनित्यता द्रव्यस्य किमिति न भवति ? इति चेत्, इत्याह- वेषान्तरापन्ननटवद् बहुरूपमपि द्रव्यं नित्यमेव, इदमुक्तं भवति यथा नायक- विदूषक कपि राक्षसादिपात्रावसरेषु वेषान्तराण्यापन्नो वेषान्तरापन्नो नटो बहुरूपः, एवमुत्फण-विफणादिभावैर्यद्यपि द्रव्यमपि बहुरूपम्, तथापि नित्यमेत्र, स्वयमविकारित्वात्, आकाशवत् - यथा हि घटपटादिसंबन्धेन बहुरूपमप्याकाशं स्वयमविकारित्वाद् नित्यम्, एवं द्रव्यमपीति भावः ॥ इति गाथार्थः ॥ ६७ ॥
कारणमेव च सर्वत्र त्रिभुवने विद्यते न कचित् कार्यम्, यच्च कारणं तत् सर्वं द्रव्यमेव, इति दर्शयन्नाह -
पिंडो कारणमिट्ठे पयं व परिणामओ तहा सव्वं । आगाराइ न वत्युं निक्कारणओ खपुष्कं व ॥६८॥
मृदादिपिण्डः कारणमिष्टं कारणमात्रमेवाऽभ्युपगम्यते । कुतः १, इत्याह- परिणामित्वात् परिणमनशीलत्वात् पयोवद् दुधवत् । यथा च पिण्डः, तथाऽन्यदपि सर्व स्थास-कांश कुशूलादिकं त्रैलोक्यान्तर्गतं वस्तु कारणमात्रमेत्र, परिणामित्वात् पयोवत्, यद् यत् कारणं तत् सर्व द्रव्यमेव, इति द्रव्यनयस्य स्वपक्षसिद्धिः । ननु मृत्पिण्डादीनां कार्यभूताः स्थास- कोश-कुशूल-घटादयः प्रत्यक्षेणैव दृश्यन्ते, संबन्धिशब्दच कारणशब्दः सर्वदैव कार्यापेक्ष एवं प्रवर्तते, तत् कथं कारणमात्रमेवाऽस्ति न कार्यम् १, इति चेत् ।
For Private and Personal Use Only
"
१ आविर्भाव तिरोभावमात्रपरिणामकारणमचिन्त्यम् । नित्यं बहुरूपमपि च नट इव वेषान्तरापनः ॥ ६७ ॥
२ पिण्डः कारणमिष्टं पय इव परिणामतस्तथा सर्वम् । आकारादिर्न वस्तु निष्कारणतः खपुष्पमिव ॥ ६८ ॥ ३ . छ. 'यच्च का' ।