SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ... .... ........ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir -249 विशेषा० नस्य तद्धेतकवादित्यर्थः। प्रकृते योजयत्राह- 'स परंपरओ येत्यादि' चकारस्य भिमक्रमत्वात सच समुद्भव उत्पादोऽत्र प्रस्तते सामायिकनियुक्तः परम्परात आचार्यपारम्पर्यादिति । यतः परम्परकात् किम् ?, इत्याह- 'जओ तमागयं ति' यतो जम्बूस्वाम्याद्याचार्यपारम्पर्यात् तत् सामायिकमागतम् , तत एवं तनियुक्तिसमुद्भवः । 'इओ तदुवयारो त्ति' इतोऽस्मात् कारणात् सामायिकनियुक्तेस्तदुपचार आगतत्वोपचारः क्रियते ; आगतशब्दश्वेहोत्पत्तिवचनो बोधवचनो वा मन्तव्यः। . इदमत्र हृदयम्- यस्य वस्तुनो यस्माद् वस्तुनः सकाशात् समुद्भवस्तद् वस्तु तस्माद् वस्तुन आगतमिवागतं व्यपदिश्यते । यथा कार्षापणरूपकादिसमुद्भूतं धान्य-भोजनादि, घटादेः समुद्भूनं रूपादिज्ञानं वा ततः समागतमित्युच्यते । स च समुद्भवोऽत्र सामायिकनियुक्तेर्यत आचार्यपारम्पर्यात् तत् सामायिकमागतं तत एव भवति, अत इह सामायिकनिर्युक्तेस्तस्मादाचार्यपारम्पर्यात् तदुपचार आगतत्वोपचारो विधीयते ॥ इति गाथाचतुष्टयार्थः ॥ १०८४ ॥ अथ नियुक्तिशब्दार्थमाह'निज्जुत्ता ते अत्था जं बद्धा तेण होइ निज्जुत्ती। तहवि य इच्छावेइ विभासिउं सुत्तपरिवाडी ॥१०८५।। निश्चयेन, आधिक्येन, आदौ वा, साधु वा यथा भवत्येवं युक्ताः संबद्धाः सूत्रे नियुक्ता एव 'जंति' यद् यस्मात् कारणात् ते प्रसिद्धाः श्रुताभिधेया जीवादयोऽर्था अनया प्रस्तुतनियुक्त्या बद्धा निबद्धा व्यवस्थापिता व्याख्याता इति यावत् , तेनेयं नियुक्तिर्भवति, नियुक्तानां सूत्रे प्रथममेव संबद्धानां सतामर्थानां व्याख्यारूपा योजनं युक्तिः, नियुक्तयुक्तिरिति प्राप्ते युक्तलक्षणस्य मध्यपदस्थ लोपाद् नियुक्तिः, यथा पद्ममुखी कन्या, इति सूत्रे नियुक्तानायेवार्थानां व्याख्या नियुक्तिर्भग्यत इत्यर्थः । ननु यदि प्रथममेव सूत्रेऽर्थाः संबद्धा एव सन्ति, तर्हि किमिति ते नियुक्त्या व्याख्यायन्ते ?, इत्याह - 'तहवि येत्यादि' यद्यपि मूत्र एवार्थाः संबद्धाः सन्ति तथापि मूत्रे नियुक्तानप्यर्थान् विभाषितुं व्याख्यातुं सूत्रपरिपाटी सूत्रपद्धतिरेवैषयति प्रेरयति प्रयोजयति । इदमुक्तं भवति- सतोऽप्यर्थानपतिबुध्यमाने श्रोतरि तदनुग्रहार्थं गुरुं मूत्रपरिपाट्यव विभाषितुपेषयतीव 'इच्छत इच्छत मां व्याख्यातुम्' इत्येवं प्रयोजयतीत्यर्थः ।। इति नियुक्तिगाथासंक्षेपार्थः॥ १०८५॥ विस्तरतो व्याख्यातुं भाष्यकार: माह निर्युकास्तेऽर्था यद् बद्वास्तेन भवति नियुक्तिः । तथापि चेपयति विभाषितुं सूत्रपरिपाटी ॥ १०८५ ॥ जं निच्छयाइजुत्ता सुत्ते अत्था इमीए वक्खाया। तेणेयं निज्जुत्ती निज्जुत्तत्थाभिहाणाओ॥ १०८६ ॥ .. यद यस्मात् मूत्रे निश्चयेन, आदिशब्दादाधिक्येन, आदौ, साधु वा युक्ताः संबद्धा निर्युक्ता एव सन्तोऽर्था अनया नियुक्त्या व्याख्याताः, तेन तस्मात्कारणादियं नियुक्तार्थाभिधानाद् नियुक्तानां युक्तियुक्तशब्दलोपा नियुक्तिर्भवति ॥ १०८६ ॥ अथ प्रेर्यमाशङ्कय परिहरनाह सुत्ते निज्जुत्ताणं निज्जुत्तीए पुणो किमत्थाणं ? । निज्जुत्ते वि न सव्वे कोइ अवक्खाणिए मुणइ ॥१०८७ ननु मूत्र एव नियुक्तानां निबद्धानां सतामर्थानां तयाख्यानार्थ क्रियमाणया नियुक्त्या किं पुनः कार्यम् ?-- न किश्चिदित्यर्थः । ये हि मूत्र एवं विद्यमानार्थाः सन्ति, तान् स्वत एव विनेयवर्गो ज्ञास्यति, अतस्तद्विभाषणप्रवृत्ता वृथैव नियुक्तिरिति भावः । अत्रोत्तरम्'निजुत्ते वीत्यादि' मूत्रे नियुक्तानपि सतः सर्वानणर्थान् कोऽपि तथाविधप्रज्ञापाटवरहितः शिष्यो नियुक्त्याऽव्याख्यातान न मुणति नावबुध्यत इति ॥ १०८७ ॥ ततः किम् , इत्याह 'तो सुयपरिवाडि चिय इच्छावेइ तमणिच्छमाणं पि । निज्जुत्ते वि तदत्थे वोत्तुं तदणुग्गहट्ठाए ॥१०८८॥ ततः श्रुतपरिपाट्येव मूत्रपद्धतिरेव विभाषितुमनिच्छन्तमपि तनियुक्तिकर्तारमोचार्य तस्य मूत्रम्यास्तदर्थान् सूत्रे नियुक्तान प्यनवबुध्यमाने श्रोतरि तदनुग्रहार्थं तान् वक्तुपेपयतीव एषयति प्रयोजयति, अतस्तानाचार्यो नियुक्त्या विभाषते, इति तस्याः साफ ल्यमिति ॥ १०८८॥ अत्र दृष्टान्तमाह- फैलयलिहियं पि मखो पढइ पभासइ तहा कराईहिं । दाएइ य पइवत्थु सुहबोहत्थं तह इह पि ॥१०८९।। १ प निक्षयादियुक्ताः सूत्रेऽर्था अनया व्याख्याताः । तेनेयं नियुक्तिनिर्युका भिधानात् ॥ १०८६ ॥ २ मूत्रे नियुकानां नियुक्त्या पुनः किमर्थानाम् ।। नियुक्तानपि न सर्वान् कश्चिदव्याख्यातान् जानाति । १०८७॥ ३ ततः सूत्रपरिपाठवषयनि तमनिच्छन्तमपि । नियुक्कानपि तदर्थान् वक्त तदनुग्रहार्थम् ॥ १०८८ ॥ ४ फलकलिखितमपि महः पठति प्रभाषते तथा करादिभिः । दर्शयति च प्रतिवस्तु सुखबोधार्थ तयेहाऽपि ॥ १०८९ ॥ For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy