________________
Shri Mahavir Jain Aradhana Kendra
}
www.kobatirth.org
246
विशेषा०
अर्थः कियते १, इत्याह-- श्रुतस्य विषयोऽभिधेयः । तस्माच्चार्थात् कथञ्चिद्भिन्नत्वात् सूत्रं पृथगुच्यते, प्राकृतत्वात् तदेव पृथक्त्वम् । इदं च सूत्रा- लक्षणमुभयं श्रुतज्ञानम् । 'तेसिं ति' तयोः सूत्रार्थयोः परस्परं 'निर्योजनम् - 'अस्य सूत्रस्याऽयमर्थः' इत्येवं संवन्धनं नियुक्तिस्तां कीर्तयिष्यामि ॥ १०७१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथवा, 'अत्थपुहत्' इत्यन्यथा व्याचष्टे
"
अत्थस्य व पिहुभावो पुहत्तमत्थस्स वित्थरत्तं ति । इह सुयस्स विसेसणं चिय अत्थपुहत व से सण्णा ॥ १०७२॥ अथवा, पृथु सामान्येन विस्तीर्णमुच्यते, तस्य भावः पुथुत्वम् अर्थस्य पृथुत्वं पृथुभावः, किम् ?, इत्याह- अर्थस्य विस्तरत्वं जीवार्थविस्तर इति यावत् । एतमेह श्रुतविशेषणम् श्रुतज्ञानस्य कथंभूतस्य ?, अर्थप्रतिपादकेनोपचारादर्थ पृथुत्वस्यार्थविस्तररूपस्येत्यर्थः । अथवा, अर्थपृथक्त्वम् अर्थपृथुत्वं चेति श्रुतज्ञानस्य संज्ञैवेयम् । ततश्चार्थपृथक्त्वसंज्ञितस्य, अर्थपृथुत्वसंज्ञितस्य वा श्रुतज्ञानस्य भगवतो नियुक्ति कीर्तयिष्यामीति ॥ १०७२ ।।
अथवा
अत्थाओ व पुहत्तं जस्स तओ वा पुहत्तओ जस्स । जं वा अत्थेण पिहुं अत्थपुहुत्तं ति तन्भावो ॥ १०७३ अथवा, अर्थात् पृथक्त्वं कथञ्चिद्भेदो यस्य तदर्थपृथक्त्वम्, स चाऽर्थः पृथक्त्वतः पार्थक्येन भेदेन वर्तते यस्य तदर्थपृथक्त्वम्, अर्थेन वा पृथु विस्तीर्णमर्थपृथु तद्भावोऽर्थ पृथोर्भावोऽपृथुत्वम् । अत्र पक्षे भावप्रत्ययान्तस्याप्यर्थ पृथुत्वशब्दस्य प्राकृतत्वेन स्वार्थवाच - कत्वात् श्रुतज्ञानेन सह सामानाधिकरण्यम् । ततश्च तस्यार्थपृथक्वस्य, अर्थपृथुत्वस्य वा श्रुतज्ञानस्य भगवतो निर्युक्ति कीर्तयिष्यामि ॥ इनि गाथाचतुष्टयार्थः ॥ १०७३ ॥
किं सर्वस्यापि श्रुतज्ञानस्य नियुक्तिर्वक्तव्या १, नैवम् ; किं तर्हि
Harare दसकालियरस तह उत्तरज्झमायारे । सुयगडे निज्जुत्तिं वोच्छामि तहा दसाणं च ॥ १०७४॥
१. क. ग. 'नियोज' २ गाथा १०६९ । ३ अर्थस्य वा पृथुभावः पृथुस्वमर्थस्य विस्तीर्णत्वमिति । इह श्रुतस्य विशेषणमेवाऽर्थपृथक्त्वं वा तस्य संज्ञा ॥ १०७२ | ४क.ग. 'तं नि से' ५ अर्थाद् वा पृथकवं यस्य सको वा पृथक्त्वतो यस्य । यद्वाऽर्थेन पृथु अर्थपृथुत्वमिति तद्भावः ॥ १०७३ ॥ पृथुपादकत्वेन ६ आवश्यकस्य दशकालिकम्य तथोत्तराध्ययना-ऽऽचारयोः । सूत्रकृते नियुक्ति वक्ष्ये तथा दशानां च ॥ १०७४ |
कैम्पस य निज्जुतिं ववहारस्स य परमनिउणस्स । सूरियपण्णत्तीए वोच्छं इसिभासियाणं च ॥ १०७५॥ एएसिं निज्जुत्तिं वोच्छामि अहं जिणोवएसेण । आहरण-हेउ-कारणपयनिवहमिणं समासेण ॥ १०७६ ॥ आवश्यकस्य, दशवैकालिकस्य, तथा, सूत्रस्य सूचकत्वादेकदेशेन समुदायावगतेश्रोत्तराध्ययना-ऽऽचारयोः, मूत्रकृतविषयांच निर्मुकं वक्ष्ये । तथा, दशानां च कल्पस्य च नियुक्ति व्यवहारस्य च परमनिपुणस्य, तथा, सूर्यप्रज्ञप्तेर्वक्ष्ये । ऋषिभाषितानां च देवेन्द्रस्तवादीनाम् । एतेषां श्रुतविशेषाणामहं जिनोपदेशेनाहरण हेतु कारणपदनिवामेतां निर्युक्तिं समासेन वक्ष्यामि ॥ इति निर्युक्तिगाथात्र्यार्थः ।। १०७४ ।। १०७५ ।। १०७६ ।।
अथाहरण हेत्वादिस्वरूपं भाष्यकारो व्याख्यातुमाह
हेऊ अणुगम - वइरेगलक्खणो सज्झत्थुपज्जाओ । आहरणं दिहंतो कारणमुत्रवत्तिमेत्तं तु ॥ १०७७ ॥
एवं पयाण निवहो ऊ-दाहरण-कारणत्थाणं | अहवा पयनिवहो चिय कारणमाहरण- हेऊणं ॥ १०७८ ॥ 'यत्र साधनं तत्र साध्यं भवत्येव' इत्येवंलक्षणः साध्यस्य साधनेन सहान्योऽनुगमः, साध्याभावे साधनाभावरूपो व्यारेकः, अनुगमश्च व्यतिरेकश्च तौ लक्षणं स्वरूपं यस्य स एवंभूतो हेतुः ; यथा- अनित्यत्वादिविशिष्टे शब्दादौ साध्ये कृतकत्वादिः । कथंभूतोऽयम् ?, इत्याह- साध्यस्याऽनित्यत्वादिविशिष्टस्य शब्दादिवस्तुनः पर्यायः, अन्यस्य वैयधिकरण्यादिदोषदुष्टत्वेन साध्यसा धकत्वायोगादिति । यत् साधर्म्येण वैधर्म्येण वा साध्यसाधनायोपन्यस्यते तदाहरणमुदाहरणं दृष्टान्त इत्यर्थः । तत्र यो भोक्ता स कर्ता दृष्टः, यथा देवदत्तः इति साधम्र्योदाहरणम् ; यस्तु न कर्ता स भोक्तापि न भवति यथाऽऽकाशम्, इति वैधम्र्योदाहरणम् ।
कारणं तु यद्यप्यन्यत्र हेतुरेवोच्यते तथापीह हेतोः साक्षात् पृथगेवोपादानात् कारणमुपपत्तिमात्रमेवावगन्तव्यम् । यथा
१ कल्पस्य च नियुक्ति व्यवहारस्य च परमनिपुणस्य । सूर्यप्रज्ञसंर्वक्ष्य ऋषिभाषितानां च ॥ १०७५ ॥ एतेषां निर्युकं वक्ष्येऽहं जिनोपदेशेन । आहरण-हेतु-कारण पदमिवहामिमां समासेन ॥ १०७६ ॥
२ हेतुरनुगम-व्यतिरेकलक्षणः साध्यवस्तुपर्यायः । आहरणं दृष्टान्तः कारणमुपपत्तिमात्रं तु ॥ १०७७ ॥ एवं पदानां मिवो हेतू दाहण-कारणार्थानाम् । अथवा पदनिवह पव कारणमाहरण हेतूनाम् ॥ १०७८ ॥
For Private and Personal Use Only